Book Title: Vicharratnakar
Author(s): Kirtivijay, Chandanbalashree
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 385
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [३२५ पूजन-गन्धमाल्यादिभिः समभ्यर्चनं, तथा 'सक्कारवत्तियाए'त्ति सत्कारप्रत्ययं-सत्कारनिमित्तं प्रवरवस्त्रादिभिः समभ्यर्चनं सत्कारः । आह-क एवमाह साधुः श्रावको वा । तत्र साधोस्तावत्पूजनसत्कारावनुचितावेव, द्रव्यस्तवत्वात् , तस्य तत्प्रतिषेधात् “तो कसिणसंजमविऊ पुष्फाईयं न इच्छंति" [ ] इति वचनात् , श्रावकस्तु सम्पादयत्येवैतौ, यथाविभवं तस्य तत्प्रधानत्वात् , तत्र तत्र दर्शितत्वात् , “जिणपूया विभववुड्डि"[ ] त्ति वचनात् । तकोऽनयोविषयः ? इति । उच्यते-सामान्येन द्वावपि साधुश्रावको, साधोः स्वकरणमधिकृत्य द्रव्यस्तवप्रतिषेधः, न पुनः सामान्येन, तदनुमतिभावात् । भवति च भगवतां पूजासत्कारावुपलभ्य साधोः प्रमोदः । साधु-शोभनमिदमेतावज्जन्मफलमविरतानामिति वचनलिङ्गगम्यः । तदनुमतिरियं उपदेशदानतः, कारणापत्तेश्च, ददाति च भगवतां पूजासत्कारविषयमुपदेशं कर्त्तव्या जिनपूजा, न खलु वित्तस्यान्यच्छुभतरं स्थानमिति वचनसन्दर्भेण तत्कारणम् , एतदनवद्यं च । तदोषान्तरनिवृत्तिद्वारेणायमत्र प्रयोजकोंऽशः । तथा भावतः प्रवृत्तेरुपायान्तराभावात् । नागदत्तसुतगर्ताकर्षणज्ञातेन भावनीयमेतत् । तदेवं साधुरित्थमेवैतत्सम्पादनाय कुर्वाणो नाविषयः । वचनप्रामाण्यादित्थमेवेष्टसिद्धिः, अन्यथाऽयोगादिति । श्रावकस्तु सम्पादयन्नप्येतौ भावातिशयादधिकसम्पादनार्थमाह-न तस्यैतयोः सन्तोषः, तद्धर्मस्य तथा स्वभावात् , जिनपूजासत्कारयोः करणलालसः खल्वाद्यो देशविरतिपरिणामः, औचित्यप्रवृत्तिसारत्वेनोचितारम्भिण एतौ सदारम्भरूपत्वात् , औचित्याज्ञाऽमृतयोगादसदारम्भनिवृत्तेः, अन्यथा तदयोगादतिप्रसङ्गादिति । तथा हि-द्रव्यस्तव एवैतौ, स च भावस्तवाङ्गमिष्टः, तदन्यस्याप्रधानत्वात् , तस्याभवेष्वपि भावात् । अत आज्ञयाऽसदारम्भनिवृत्तिरूप एवायं स्यात् । औचित्यप्रवृत्तिरूपेऽप्यल्पभावत्वात् द्रव्यस्तव: गुणाय चायं, कूपोदाहरणेन । न चैतदप्यनीदृशं इष्टफलसिद्धये । किं तु आज्ञामृतयुक्तमेव । स्थाने विधिप्रवृत्तेरिति सम्यगालोचनीयमेतत् । तदेवमेतयोः साधुश्रावकावेव विषय इत्यलं प्रसङ्गेन । इति श्रीहरिभद्रसूरिकृतायां ललितविस्तरायाम् ॥७५॥ तथा जिनपूजा यदि मोक्षसाधनं तर्हि साधुभिः कुतो न क्रियत इत्यादि ये प्रलपन्ति तेषामपीदमेव मुखमुद्रणमिति । अथ लोकोत्तरमिथ्यात्वस्वरूपं लिख्यते ___ लोकोत्तरदेवगतं-परतीर्थिकसगृहीतजिनबिम्बार्चनादिसप्रत्ययश्रीशान्तिनाथपार्श्वनाथादिप्रतिमाणामिह लोकार्थं यात्रोपचितमाननादि च, लोकोत्तरगुरुगतं च D:\ratan.pm5\5th proof

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452