________________
श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङ्गः]
२८७ भक्तिं करोति । यद्यपि चान्योऽपि गुरोर्भक्तिं करोति तथाऽपि ममापि निर्जरा स्यादित्यात्मानुग्रहबुद्ध्याऽन्येनापि भक्ति: कर्त्तव्येति । लौहार्यगौतमदृष्टान्तेन भावयति
जइ वि य लोहसनाणो, गिण्हइ खीणंतराइणो उंछं।
तहवि य गोअमसामी, पारणए गेहए गुरुणो ॥२॥[व्य.भा./२६७१] यद्यपि च लोहसमानो लोहार्यः क्षीणान्तरायस्य भगवतो वर्द्धमानस्वामिनः सदैवोच्छंएषणीयभक्तादिकं गृह्णाति, तस्य भगवद्वैयावृत्त्यकरत्वात् । यतः
"धन्नो सो लोहज्जो, खंतिखमो पवरलोहसरिवन्नो ।
जस्स जिणो पत्तातो, इच्छइ पाणीहि भुत्तुं जे" ॥[ ] तथाऽपि गौतमस्वामी स्वपारणके गुरोर्वर्द्धमानस्वामिनो योग्यं गृह्णाति । एवमन्येनाप्यवैयावृत्त्यकरभावेऽपि यथायोग्यं गुरोः कर्त्तव्यम् । इति व्यवहारभाष्यवृत्तौ षष्ठोद्देशके ६५९ प्रतौ ४५७ पत्रे ॥८॥
अस्वाध्याये सर्वथा स्वाध्यायो न कर्त्तव्य इत्यभिप्रायो लिख्यते
राया इव तित्थगरो, जाणवया साहु घोसणं सुत्तं ।
मेच्छा य असज्झातो, रयणधणाई व नाणादी ॥१॥[व्य.भा./३१०४] अत्र राजा इव तीर्थकर: जानपदा इव साधवः, घोषणमिव सूत्रं, म्लेछा इवास्वाध्यायः, रत्नधनानीव ज्ञानादीनि । तत्र ये साधवो जानपदस्थानीया राजस्थानीयस्य तीर्थकरस्याज्ञां नानुपालयन्ति ते प्रान्तदेवतया छल्यन्ते, प्रायश्चित्तदण्डेन इव दण्डन्ते । इति व्यवहारभाष्यसप्तमोद्देशके ६५९ प्रतौ ५०५ पत्रे ॥९॥ तथा सन्ध्यास्वपि स्वाध्यायो न कर्त्तव्य इत्यक्षराणि लिख्यन्ते
चउसंझासु न कीरइ, पाडिवएसुं तहेव चउसुं पि ।
जो जत्थ पूज्जती तू , सव्वहिं सुगिम्हतो नियमा ॥१॥[व्य.भा./३१२४] चतस्रः सन्ध्यास्तिस्रो रात्रौ । तद्यथा-प्रस्थिते सूर्ये, अर्द्धरात्रे, प्रभाते च, चतुर्थी दिवसस्य मध्यभागे, एतासु चतसृष्वपि दिनसन्ध्यासु स्वाध्यायो न क्रियते, शेषक्रियाणां तु प्रतिलेखनादीनां न प्रतिषेधः । स्वाध्यायकरणे चाज्ञाभङ्गादयो दोषास्तथा चतस्रः प्रतिपदः तद्यथा-आषाढपौर्णमासीप्रतिपत् १ इन्द्रमहप्रतिपत् २ कार्तिकपौर्णमासीप्रतिपत् ३ सुग्रीष्मप्रतिपत् ४ चैत्रपौर्णमासीप्रतिपदित्यर्थः, एतास्वपि चतसृष्वपि प्रतिपत्सु तथैव स्वाध्याय एव न क्रियते । न शेषक्रियाणां प्रतिषेधः । इह प्रतिपद्ग्रहणेन प्रतिपत्यपर्यन्ताश्चत्वरो महाः सूचिताः । इत्येषां तु चतुर्णा महानां मध्ये यो महो यस्मिन् देशे यतो
D:\ratan.pm5\5th proof