________________
६]
[श्रीविचाररत्नाकरः
ततःसोउं पडिच्छिऊणं, व गया अहवा पडिच्छिणे खिसा ।
हिंडंति होंति दोसा, कारणे पडिवत्तिकुसलेहिं ॥७॥ [व्य.भा./२६०४] भिक्षार्थं गत इति श्रुत्वा ते हीलयित्वा गते, अथवा क्षणमात्र प्रतीक्ष्य हीलयन्त्यौ गते, यदि वा यावदाचार्य आगच्छति तावत् प्रतीक्ष्यमाणे हीलयतः, अथवा प्रस्विन्नशरीरं-परिगलत्प्रस्वेदमागतं दृष्ट्वा खिसतः, यदि वा क्लमेन सुष्ठु कृतं वन्दनं न वा सोमं कथयतो वा परिश्रमेण न सुष्टुवचनविनिर्गमस्तत उत्थिते हीलयतो यथा पिण्डलोक इवैष भिक्षामटति, किमाचार्यत्वमेतस्य एते भिक्षां हिण्डमाने दोषा:-यदि पुनः कारणे वक्ष्यमाणे भिक्षार्थं गतो भवेत् राजादयश्च तत्रागताः, ते च पृच्छेयुः क्व गत आचार्यः तत्र ये प्रतिपत्तिकुशलास्तैर्नेदं वक्तव्यम्-भिक्षार्थं गत इति, चैत्यवन्दनिमित्तं गत इति । ते यदि राजादय आचार्यमागच्छन्तं प्रतीक्षेरन् तदा येऽतीवदक्षा गीतार्थास्ते सुन्दरं पानकं प्रथमालिकां सुन्दरं कल्पं चोलपट्टं च गृहीत्वाऽऽचार्यसमीपे गत्वाऽऽचार्यस्य कथयन्ति । तत आचार्यो मखहस्तपादादि प्रक्षाल्य प्रथमालिकां पानकं कत्वा कल्पं प्रावत्य पात्राण्यन्यस्य समर्प्य तादृशवेषो वसतावानीयते । यथाऽनाख्यातोऽपि राजादिभिर्ज्ञायते, एष आचार्य इति । ततो वसतिं प्राप्तस्य पादप्रोञ्छनं पादप्रमार्जनार्थमादाय साधव उपतिष्ठन्ति । पादप्रमार्जनान्तरं वसतेरन्तः प्रविश्य पूर्वरचितायां निषद्यायामुपविशति । उपविष्टस्य चरणकल्पकरणाय कोऽपि साधुरुपढौकते । चरणप्रक्षालनानन्तरं च सर्वे साधवः पुरतः पार्श्वत: पृष्ठतो वा किङ्करभूतास्तिष्ठन्ति । यथा राजा चकितस्तिष्ठति । इति श्रीव्यवहारभाष्यवृत्तौ षष्ठोद्देशके ६५९ प्रतौ ४४९ पत्रे ॥७॥
न केवलं वैयावृत्त्यकरेणैवाहारादिना गुरोर्भक्तिः कार्या, किन्त्वन्येन गीतार्थेनापि स्वयमाहृताहारादिना गुरोर्भक्तिः कर्त्तव्येत्याभिप्रायो लिख्यते
दव्वे भावे भत्ती, दव्वे गणिगा उ दूति-जाराणं ।
भावंमि सीसवग्गो, करेइ भत्तिं सुअधरस्स ॥१॥[व्य.भा./२६७०] आचार्यस्य भक्तौ क्रियमाणायां तीर्थस्याव्यवच्छेदः, भक्तावक्रियमाणायां तु तीर्थव्यवच्छेदः । सा च भक्तिद्विधा-द्रव्ये भावे च, तत्र यन्नाम गणिका भुजङ्गानां भक्तिं कुर्वन्ति दूतयो वा जाराणां, सा द्रव्ये द्रव्यभक्तिः, भावे भावविषया भक्तिः पुनरियं यच्छिष्यवर्गः श्रुतधरस्य
D:\ratan.pm5\5th proof