________________
श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङ्गः]
२८५ उप्पन्ननाणा जह नो अडंति, चोत्तीसबुद्धातिसया जिणिंदा । __एवं गणी अट्ठगुणोववेओ, सत्था व नो हिंडइ इड्डिमं तु ॥३॥[व्य.भा./२५७१ ] यथा उत्पन्ने ज्ञाने जिनेन्द्राश्चतुस्त्रिंशबुद्धातिशयाः सर्वज्ञातिशया देहसौगन्ध्यादयो येषां ते तथा भिक्षां न हिण्डन्ते । एवं तीर्थकरदृष्टान्तेन गणी आचार्योऽष्टगुणोपेतोऽष्टविधगणिसम्पदुपेतः शास्ता इव तीर्थकर इव ऋद्धिमान्न हिण्डते ॥ १गुरुहिडणंमि गुरुगा, वसभे लहुआऽनिवारयंतस्स ।
गीताऽगीते गुरुलहु , आणादीया बहू दोसा ॥४॥[व्य.भा./२५७२ ] आचार्य भिक्षामटामीति व्यवसितं यदि वृषभो न निवारयति तदा तस्यानिवारयतः प्रायश्चित्तं चत्वारो लघुकाः, अथ वृषभेण निवारितोऽपि न तिष्ठति तर्हि वृषभ: शुद्ध आचार्यस्य प्रायश्चित्तं चत्वारो गुरुकाः, तथा गीतार्थो भिक्षुश्चेन्न निवारयति तदा तस्य मासगुरुः, अगीतार्थस्य भिक्षोरनिवारयतो मासलघुः । आचार्यस्य गीतार्थगीतार्थभ्यां वारितस्यापि गमने प्रत्येकं चतुर्गुरुः । आज्ञादयश्चेमे वक्ष्यमाणा बहवो दोषाः ।।
तानेवाहरायामच्चपुरोहिय, सेट्ठी सेणावई तलवरा य । अभिगच्छंतायरिए , तहियं च इमे उदाहरणं ॥५॥[व्य.भा./२६०२]
यथा तीर्थकरश्छद्मस्थकाले हिण्डमानोऽप्युत्पन्ने ज्ञाने देवेन्द्राद्यभिगमान्न हिण्डते । एवमाचार्यानपि-आचार्यपदस्थानपि राजा अमात्यः पुरोहितः श्रेष्ठी सेनापतितलवराश्चाभिगच्छन्ति, ततस्ते भिक्षां न हिण्डन्ते अन्यथा दोषः, तत्र चेदमुदाहरणम् ।।
तदेवाहसोऊण य उवसंतो, अमच्चो रण्णो तगं निवेदेइ ।
राया वि बितियदिवसे, तइए अमच्ची य देवी य ॥६॥[व्य.भा./२६०३ ] राज्ञोऽमात्य आचार्यसमीपे धर्मं श्रुत्वा उपशान्तः, स च राज्ञस्तकमाचार्यं निवेदयति यथागुणवानतीवाचार्योऽमुकप्रदेशे तिष्ठति, ततो द्वितीयदिवसे राजा अमात्येन सह गतः, स धर्म श्रुत्वा परितुष्ट आगतो निजाग्रमहिष्याः परिकथयति अमात्येनाप्यात्मीयभार्यायाः कथितम् , ततोऽमात्यी देवी च तृतीयदिवसे धर्मश्रवणाय समागते आचार्यो भिक्षार्थं गतः ।।
१. व्य.नि.३७७ गा.।
D:\ratan.pm5\5th proof