________________
[श्रीविचाररत्नाकरः आचार्यो यदि विचारभूमि बहिर्गच्छति ततः प्रायश्चित्तं चत्वारो गुरुकाः, आज्ञादयश्च दोषाः । तथा 'वाणिए य मिच्छत्तं' ति वणिजि पूर्वमभ्युत्थानं कृतवति, पश्चादकुर्वति के षाञ्चिन्मिथ्यात्वमुपजायते, इयमत्र भावना-आचार्य सञ्ज्ञाभूमि वजन्तं ततः प्रत्यागच्छन्तं च दृष्ट्वा वणिजो निजनिजापणस्था अभ्युत्थानं कृतवन्तः, तं च तथा वणिजां बहुमानेनाभ्युत्थानं दृष्ट्वा केचिदन्ये मन्यन्ते गणवानेष आचार्यो येन वणिज एवमेनमभ्युत्तिष्ठन्ति तस्मादस्माकमपि पूज्य इति तेऽपि पूजयन्ति । यदा त्वाचार्यः कदाचिद् द्वौ वारौ सज्ञाभूमिं व्रजति तदा चतुरो वारान् गमने प्रत्यागमने चोत्थातव्यं ते चालस्यं मन्यमाना अभ्युत्थानं भविष्यतीति कृत्वा आचार्यं दृष्ट्वाऽन्यतो मुखं कुर्वन्ति तांश्च तथा कर्वतो दृष्टवाऽन्ये चिन्तयन्ति ननमेष प्रमादी जातो. जातोऽपि गणवानपि यदीदृश पतति तहि न किञ्चिदिति ते मिथ्यात्वं गच्छन्ति । तथा आचार्यं लोकेन पूज्यमानं दृष्ट्वा मरुके ब्राह्मणस्य मारणबुद्ध्या प्रतिचरणं भवति, ततः सञ्ज्ञाभूमिं गतं विजने प्रदेशे मारयेत् । तथा खरमुखीं-नपुंसकी दासी वा प्रापयित्वा उड्डाहं कुर्यात् । अनाभोगेन वा वनगहने प्रविष्टे तिर्यगादौ कुलटादौ च प्रविष्टायामात्मपरोभयसमुत्था दोषा एष गाथासक्षेपार्थः । इति श्रीव्यवहारभाष्यवृत्तौ षष्ठोद्देशके ६५९ प्रतौ ४४१ पत्रे ॥६॥
__ आचार्यो हि भगवांस्तीर्थङ्करकल्पः, ततस्तेन गोचरचर्यायां न गन्तव्यम् , यदि याति तर्हि प्रायश्चित्तम् , तं गच्छन्तं वा यदि गीतार्थो भिक्षुर्वा न निषेधयति तर्हि तयोरपि प्रायश्चित्तमित्यभिप्रायो लिख्यतेतत्र प्रथमं तीर्थङ्करकल्पद्वारं व्याख्यानयति
देविंदचक्कवट्टी, मंडलिया ईसरा तलवरा य ।
अभिगच्छंति जिणिंदे, तो गोअरिअंन हिंडंति ॥१॥[व्य.भा./२५६९] जिनेन्द्रान् भगवत उत्पन्ने ज्ञाने देवेन्द्राः-शक्रप्रभृतयश्चक्रवर्तिनः उपलक्षणमेतत् यथायोगं वासुदेवा बलदेवाश्च तथा माण्डलिका:-कतिपयमण्डलप्रभव ईश्वरास्तलवराश्चाभिगच्छन्ति, ततस्ते गोचरचर्यां न हिण्डन्ति ।।
संखादीया कोडी, सुराण निच्चं जिणे उवासंति ।
संसयवागरणाणि य, मणसा वचसा च पुच्छंति ॥२॥[ व्य.भा./२५७० ] सङ्ख्यातीताः सुराणां कोट्य नित्यं-सर्वकालं जिनान्-तीर्थकृत उपासते, तथा सततं मनसा वचसा च पृच्छन्ति, सुरादिके मनसा वचसा च संशयं व्याकरणानि करोति, ततो भिक्षां न हिण्डते ॥
D:\ratan.pm5\5th proof