________________
२८३
श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङ्गः] तीरितायां समाप्तायां प्रतिमायामुत्प्राबल्येन भ्रमन्त्युद्धमाः-भिक्षाचरास्तेषां नियोगो व्यापारो यत्र स उद्ममैकनियोगो ग्रामस्तत्र दर्शनमात्मनः प्रकटनं करोति, ततः साधुंसंयतं संज्ञिनंसम्यग्दृष्टिं श्रावकं वा 'अप्पाहे' त्ति संदेशयति, ततो दण्डिनो-राज्ञो निवेदनं स सत्कारं करोति, तदभावे भोजिकः, तस्याप्यभावे श्रावकवर्गः, तस्याप्यभावे सङ्घःसाधु-साध्वीवर्गः । इयमत्र भावना-प्रतिमायां समाप्तायां यस्मिन् ग्रामे प्रत्यासन्ने बहवो भिक्षाचराः साधवश्च समागच्छन्ति, तत्रागत्यात्मानं दर्शयति दर्शयंश्च यं साधुं श्रावकं वा पश्यति तस्य सन्देशं कथयति यथा-समापिता मया प्रतिमा ततोऽहमागत इति । तत्राचार्या राज्ञो निवेदयन्ति यथा-अमुको महातपस्वी समाप्ततपःकर्माभूदिति स महता सत्कारेण गच्छे प्रवेशनीय इति । ततः स राजा तस्य सत्कारं कारयितव्यः, तदभावेऽधिकृतस्य ग्रामस्य नगरस्य वा नायकः, तदभावे समृद्धः श्रावकवर्गः, तदभावे साधुसाध्वीवर्गप्रभृतिकः सङ्गो यथाशक्ति सत्कारं करोति । सत्कारो नाम तस्योपरि चन्द्रोदयधारणं, नान्दीतूर्यास्फालनं, सुगन्धवासक्षेपणमित्यादि , एवंरूपेण सत्कारेण गच्छं प्रवेशयेत् ॥
सत्कारेण प्रवेशनायामिमे गुणाःउब्भावणा पवयणे, सद्धाजणणं तहेव बहुमाणो।।
ओहावणा कुतित्थे, जीअं तह तित्थवुड्डी य ॥२॥ [ व्य.भा./८०९] प्रवेशसत्कारेण प्रवचने-प्रवचनस्योद्धाजनाप्राबल्येन प्रकाशनं भवति, तथाऽन्येषां बहूनां साधूनां श्रद्धाजननं यथा वयमप्येवं कुर्मो येन महती शासनस्य प्रभावना भवति, तथा श्रावकश्राविकाणामन्येषां च बहुमानमुपजायते शासनस्योपरि यथा अहो महाप्रतापिपारमेश्वरं शासनं, यत्रेदृशा महातपस्विन इति, तथा कुतीर्थे जातावेचकवचनं, कुतीर्थानामपभ्राजना-हीलना, तत्रेदृशां महासत्वानां तपस्विनामभावात् , तथा जीतमेतत्-कल्प एष यथा समाप्तप्रतिमानुष्ठानानां सत्करणीय इति, तथा तीर्थवृद्धिश्च । एवं प्रवचनस्यातिशयमुदीक्ष्यमाणा बहवः संसाराद्विरज्यन्ते, विरक्ताश्च परित्यक्तसङ्गाः प्रव्रज्यां प्रतिपद्यन्ते, ततो भवति तीर्थप्रवृद्धिरिति । इति श्रीव्यवहारभाष्यवृत्तौ प्रथमोद्देशके ६५९ प्रतौ १९५ पत्रे ॥५॥
अथाचार्यैः शरीरचिन्तार्थं बहिर्न गन्तव्यम् , इत्यक्षराणि लिख्यन्ते१बहिगमणे चउगुरुगा, आणादी वाणिए य मिच्छत्तं ।
पडियरणमणाभोगे, खरमुहि मरुए तिरिक्खादी ॥१॥[व्य.भा./२५४२ ] १. व्य.नि.३७४ दारगाहा।
D:\ratan.pm5\5th proof