________________
[श्रीविचाररत्नाकरः आवजित सन्नाचार्यः स्तोकमेवं प्रायश्चित्तं दास्यतीति बुद्ध्या वैयावृत्त्यकरणादिभिरालोचनाचार्यमाकम्प्य-आराध्य यत् आलोचयति, एष आचोलनादोषः १, तथा अनुमान्यानुमानं कृत्वा लघुतरापराधनिवेदनतो मृदुदण्डप्रदायकत्वादिस्वरूपमाचार्यस्याकलय्य यदालोचयत्येषोऽप्यालोचनादोषः २, तथा यद् दृष्टमपराधजातं क्रियमाणमाचार्यादिना तदेवालोचयति नापरमिति तृतीय आलोचनादोषः ३, 'बायरं च' त्ति बादरं दोषजातमालोचयति न सूक्ष्म, तत्रावज्ञापरत्वात् एष चतुर्थः ४, 'सुहुमं व' त्ति सूक्ष्मं वा दोषजातमालोचयति न बादरम् , यः सूक्ष्ममालोचयति स कथं बादरं नालोचयतीत्येवंरूपभावसम्पादनार्थमाचार्यस्यैष पञ्चम आलोचनादोषः ५, तथा 'छण्णं'ति प्रच्छन्नमालोचयति किमुक्तं भवति ? लज्जालुतामुपदापराधानल्पशब्देन तथाऽऽलोचयति यथा केवलमात्मैव शृणोति, न गुरुरित्येष षष्ठ आलोचनादोषः ६, 'सद्दाउलं'ति शब्दाकुलं बृहच्छब्दं यथा भवत्येवमालोचयति इदमुक्तं भवति-शब्देन तथाऽऽलोचयति यथाऽन्येऽप्यगीतार्थादयः शृण्वन्तीत्येष सप्तम आलोचनादोषः ७, तथा 'बहुजण'त्ति बहुजनमध्ये यदालोचनं तद् बहुजनम् , अथवा बहवो जना आलोचनागुरवो यत्र तद् बहुजनमालोचनम् , किमुक्तं भवति ? एकस्य पुरत आलोच्य तदेवापराधजातमन्यस्यापि पुरत आलोचयति एषोऽष्टम आलोचनादोषः ८, 'अवत्त'त्ति अव्यक्तोऽगीतार्थः, तस्याव्यक्तस्य गुरोः पुरतो यदपराधालोचनं तदव्यक्तम् , एष नवम आलोचनादोषः ९, 'तस्सेवित्ति शिष्यो यमपराधमालोचयिष्यति तमेव सेवते यो गुरुरसौ तत्सेवी तस्य समीपे यदपराधालोचनं एष ममातिचारेण तुल्यस्ततो न किमपि मे प्रायश्चित्तं दास्यत्यल्पं वा दास्यति न च मां खरण्टयिष्यते यथा विरूपं कृतं त्वयेति बुद्ध्या तदालोचनं तत्सेवि, एष दशम आलोचनादोषः १० । इति श्रीव्यवहारभाष्यवृत्तौ प्रथमोद्देशके ६५९ प्रतौ १४१ पत्रे ॥४॥
अथ साधूनामपि योगादितपोऽनुष्ठानपरिसमाप्ताववश्यं नन्द्यादिमहोत्सवः कर्त्तव्य एव, न च किमिदं निर्ग्रन्थानामुत्सवकरणमित्यादिशङ्का कार्या, जिनशासनोन्नतिकरत्वाच्छास्त्रोक्तत्वाच्च । तथा हि-इत्युक्तः प्रतिमाप्रतिपत्तिविधिः, इदानीं समाप्तिविधिमाह
तीरियउब्भामणतो य, दरिसणं साहु सन्निमप्पाहे। दंडिय भोइय असती, सावगसंघो व सक्कारं ॥१॥[व्य.भा.८०८ ]
१. तिरियमुब्भाम णियोग, दरिसणं साहु सण्णि वप्पाहे । व्य.भा.इति पूर्वार्द्धः ॥ २. व्य.नि.१४२ दारगाथा।
D:\ratan.pm5\5th proof