________________
श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङ्गः]
२८१ अथाऽऽलोचयतो गुणा दोषाश्च लिख्यन्ते
आलोयंतो एत्तो, दसहि गुणेहिं तु होइ उववेओ। जाइकुलविणयणाणे दंसणचरणेहि संपन्नो ॥१॥[व्य.भा./५२१] खंते दंतेऽमाई, अपच्छतावी य होति बोधव्वे ।
आलोयणाए दोसा, एत्तो वुच्छं समासेणं ॥२॥[व्य.भा./५२२] इत उर्ध्वआलोचयन्नालोचको वक्तव्यः, स च दशभिर्गुणैरुपपेत एव-युक्त एव भवति, तुरेवकारार्थो भिन्नक्रमत्वादत्र सम्बध्यते । तानेव गुणानुपदर्शयति-'जाइ' इत्यादि, जातिसम्पन्नः, कुलसम्पन्नः, मातृपक्षो जातिः, पितृपक्षः कुलम् , विनयसम्पन्नः, ज्ञानसम्पन्नः, दर्शनसम्पन्नः, चरणसम्पन्नः, क्षान्तः, दान्तः, अमायी, अपश्चात्तापी च बोद्धव्यः । अथ कस्मादालोचकस्यैतावान् गुणसमूहोऽन्विष्यते ? उच्यतेजातिसम्पन्नः प्रायोऽकृत्यं न करोति अथ कथमपि कृतं तर्हि सम्यगालोचयति, कुलसम्पन्नः प्रतिपन्नप्रायश्चित्तनिर्वाहक उपजायते, विनयसम्पन्नो निषद्यादानादिकं विनयं सर्वं करोति सम्यगालोचयति, ज्ञानसम्पन्नः श्रुतानुसारेण सम्यगालोचयति, अमुकश्रुतेन मे दत्तं प्रायश्चित्तमतः शुद्धोऽहमिति च जानीते, दर्शनसम्पन्नः प्रायश्चित्ताच्छुद्धिं श्रद्धत्ते, चरणसम्पन्नः प्रायोऽतिचारं पुनर्न करोति अनालोचितं वा चारित्रं न शुध्यतीति सम्यगालोचयति, क्षान्तो नामं क्षमायुक्तः स कस्मिंश्चित् प्रयोजने गुर्वादिभिः खरपुरुषमपि भणितः सम्यक् प्रतिपद्यते यदपि च प्रायश्चित्तमारोपितं तदपि सम्यग् वहति, दान्तो नाम इन्द्रियनोइन्द्रियजयसम्पन्नः स प्रायश्चित्ततपः सम्यक्करोति, मायाऽस्यास्तीति मायी न मायी अमायी सोऽप्रतिकुञ्चितमालोचयति, अपश्चात्तापी नाम यः पश्चात् परितापं न करोति हा दुष्ठु कृतं मया यदालोचितमिदानी प्रायश्चित्ततपः कथं करिष्यामीति किं त्वेवं मन्यते-कृतपुण्योऽहं यत् प्रायश्चित्तं प्रतिपन्नवानिति । अत ऊर्ध्वमालोचनाया दोषान् समासेन सङ्केपेण वक्ष्ये ।। प्रतिज्ञातमेव निर्वाहयति
आकंपयित्ता अणुमाणयित्ता, जं दिलै बायरं च सुहुमं वा। छण्णं सद्दाउलगं, बहुजणमव्वत्ततस्सेवी ॥२॥[व्य.भा./५२३]
१. व्य.नि.१०४ गा. । २. व्य.नि.१०५ गा. । ३. व्य.नि. १०६ गा.
D:\ratan.pm5\5th proof