________________
[श्रीविचाररत्नाकरः तत्क्षणादेव रिक्तीभवति, सुचिरेण तु कालेन पूर्यते, एवं महाव्रतानामेकस्मिन्नपि महाव्रतेऽतिचर्यमाणे तत्क्षणादेव समस्तचारित्रभ्रंशो भवति एकमूलगुणघाते सर्वमूलगुणानां घातात् , तथा च गुरवो व्याचक्षते-एकव्रतभते सर्वव्रतभङ्ग इति एतन्निश्चयनयमतं, व्यवहारतः पुनरेकव्रतभङ्गे तदेवैकं भग्नं प्रतिपत्तव्यम् , शेषाणां तु भङ्गः क्रमेण, यदि प्रायश्चित्तप्रतिपत्त्या नानुसन्धत्ते, इति । अन्ये पुनराहु:-चतुर्थमहाव्रतभङ्गप्रतिसेवनेन तत्कालमेव सकलचारित्रभ्रंशः, शेषेषु पुनर्महाव्रतेष्वभीक्ष्णप्रतिसेवनया महताऽतिचारेण वा वेदितव्यः । उत्तरगुणप्रतिसेवनायां पुनः कालेन चरणभ्रंशो यदि पुनः प्रायश्चित्तप्रतिपत्त्या नोज्ज्वालयति । एतदपि कुतोऽवसेयम् ? इति चेत् , उच्यते-शकटदृष्टान्तात् । तथा हि-शकटस्य मूलगुणा द्वे चक्रे, उद्धी अक्षश्च, उत्तरगुणा बुध्नकीलकलोहपट्टादयः एतैर्मूलगुणैरुत्तरगुणैश्च सुसम्प्रयुक्तं सत् शकटं यथा भारवहनक्षम भवति मार्गे च सुखं वहति, तथा साधुरपि मूलगुणैरुत्तरगुणैश्च सुसम्प्रयुक्तः सन् अष्टादशशीलाङ्गसहस्रभारवहनक्षमो भवति, विशिष्टोत्तरोत्तरसंयमाध्यवसायस्थानपथे च सुखं वहति । अथ शकटस्य मूलाङ्गानामेकमपि मूलाङ्ग भग्नं भवति तदा न भारवहनक्षम, नापि मार्गे प्रवर्त्तते । उत्तराङ्गैस्तु कैश्चिद्विनाऽपि कियत्कालं शकटं भारक्षमं भवति प्रवहति च मार्गे, कालेन पुनर्गच्छता अन्यान्यपरिशटनादयोग्यमेव तदुपजायते । एवमिहापि मूलानामेकस्मिन्नपि मूलगुणे हते न साधूनामष्टादशशीलाङ्गसहस्रभारवहनक्षमता नापि संयमश्रेणिपथे प्रवहनम् , उत्तरगुणैस्तु कैश्चित् प्रतिसेवितैरपि कियन्तं कालं चरणभारवहनक्षमता संयमश्रेणिपणे प्रवर्त्तनं च, कालेन पुनर्गच्छता तत्राप्यन्यान्यगुणप्रतिसेवनातो भवति समस्तचारित्रभ्रंशः, ततः शकटदृष्टातादुपपद्यते मूलगुणानां प्रतिसेवने एकस्यापि मूलगुणस्य नाशे तत्कालं चारित्रभ्रंशः उत्तर-गुणनाशे कालक्रमेणेति । इतश्चैतदेव मण्डपसर्षपादिदृष्टान्तात् । तथा हि-एरण्डादिमण्डपे यद्येको द्वौ बहवो वा सर्षपा: उपलक्षणमेतत्-तिलतन्दुलादयो वा प्रक्षिप्यन्ते तथाऽपि मण्डपो न भङ्गमापद्यते अतिप्रभूतैस्त्वाढकादिसङ्ख्याकैर्भज्यते, अथ तत्र महती शिला प्रक्षिप्यते तदा तयैकयाऽपि तत्क्षणादेव ध्वंसमुपयाति, एवं चारित्रमण्डपोऽप्येकद्वित्र्यादिभिरुत्तरगुणैरतिचर्यमाणैर्न भङ्गमापद्यते बहुभिस्तु कालक्रमेणातिचर्यमाणैर्भज्यते, शिलाकल्पेन पुनरेकस्यापि मूलगुणस्यातिचारेण तत्कालं ध्वंसमुपगच्छतीति ।। इति श्रीव्यवहारभाष्यवृत्तौ प्रथमोद्देशके ६५९ प्रतौ १२७ पत्रे ॥३॥
D:\ratan.pm5\5th proof