________________
श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङ्गः ]
ततस्तं कुञ्चितभावं-कुटिलभावं पूर्वमाचार्यो निर्भर्त्सयति-किमित्यालोचनायामुपस्थितोऽपि मृषा वदसि । ततो 'दंडो' इति प्रथमतो मायानिष्पन्नेन मासगुरुप्रायश्चित्तेन दण्डयति । पश्चाद्यदापन्नं मासिकं तेन द्वितीयवेलं दण्डयति ॥
अथ वारत्रयमालोचनादानेऽपि कथं श्रुतव्यवहारिणो मायामन्तर्गतां लक्षयन्ति ?
तत आह
'आगारेहि सरेहि य, पुव्वावरवाहयाहि य गिराहिं ।
नाउं कुंचियभावं, परोक्खनाणी ववहरंति ॥२०॥ [ व्य.भा. ३२३ ] आकाराः—शरीरगता भावविशेषाः, तत्र यः शुद्धस्तस्य सर्वेऽप्याकारा संविग्नभावोपदर्शका भवन्ति, इतरस्य तु न तादृशाः स्वरा अप्यालोचयतः शुद्धस्य व्यक्ता विस्पष्टा अक्षुभिताश्च निस्सरन्ति, इतरस्य त्वव्यक्ता - अविस्पष्टाः क्षुभितगद्गदाश्च । तथा शुद्धस्य वाणी पूर्वापराव्याहता इतरस्य तु पूर्वापरविसंवादिनी, तत एवं परोक्षज्ञानिनः श्रुतव्यवहारिण आकारैः स्वरैः पूर्वापरव्याहताभिश्च गीर्भिस्तस्यालोचकस्य कुञ्चितभावं- कुटिलभावं ज्ञात्वा तथा व्यवहरति पूर्वं मायाप्रत्ययेन प्रायश्चित्तदण्डेन दण्डयति, पश्चादपराधप्रत्ययेन प्रायश्चित्तदण्डेनेति भावः इति श्रीव्यवहारप्रथमोद्देशके ६५९ प्रतौ ८४ पत्रे ॥२॥
२७९
निश्चयतस्तु एकस्मिन् महाव्रतो भग्ने सर्वाण्यपि भग्नानि, व्यवहारतस्तु यद्विराद्धं तदेव भग्नमित्यभिप्रायो लिख्यते
अथ मूलगुणप्रतिसेवनायां उत्तरगुणप्रतिसेवनायां वा चारित्रभ्रंशे अस्ति कश्चिद्विशेषः उत नास्ति ? अस्तीति ब्रूमः कोऽसौ इत्याह
मूलगुणदइयसगडे, उत्तरगुणमंडवे सरिसवाई ।
छक्कायरक्खणट्ठा, दोसु वि सुद्धे चरणसुद्धी ॥१॥ [ व्य.भा. ४६९ ]
मूलगुणेषु दृष्टान्तो इतिः शकटं च, केवलमुत्तरगुणा अपि तत्र दर्शयितव्याः, उत्तरगुणेषु दृष्टान्तो मण्डपे सर्षपादि आदिशब्दाच्छिलादिपरिग्रहः, तत्रापि मूलगुणा अपि दर्शयितव्याः, इयमत्र भावना - एकेनापि मूलगुणप्रतिसेवनेन तत्क्षणादेव चारित्रभ्रंश उपजायते उत्तरगुणप्रतिसेवनायां पुनः कालेन, अत्र दृष्टान्तो दृतिकः - यथा हि-यथा दृतिक उदकभृतः पञ्चमहाद्वार:, तेषां महाद्वाराणामेकस्मिन्नपि महाद्वारे मुत्कलीभूते
१. व्य.नि. ७३ गा. ।
D:\ratan.pm5\5th proof