________________
२४]
[ श्रीविचाररत्नाकरः क्षुद्रकण्टकं प्रोतं कृत्वा दिक्करुयधणुएण मिल्लेइ तेण आसो विद्धो, ईषिका अश्वमाहत्यपतिता रिङ्गिणीकाकण्टकोऽश्वशरीरेऽनुप्रविष्टः, ततो सो आसो तेण अव्वत्तसल्लेण परिहाय पभूयगुणजोग्गासणमपि चरंतो, ततो विज्जस्स अक्खातो विज्जेण परिचिंतिऊण भणियंनत्थि अण्णो कोइ रोगो अवस्समव्वत्तो कोइ सल्लो, ताहे विज्जेणं सो आसो जमगसमगपुरिसेहिं चिक्खल्लेण आलिंपावितो, ततो जत्थ पढमं सुक्कं दिट्टं तत्थ फालेत्ता अवणीतो सो क्षुद्रकण्टकी सल्लो, जहा सो आसो ससल्लो न सक्केइ सामंतरायाणो निज्जिणिउं पुव्वं एवं तुमं पि किरियाकलावं करेंतो वि संजमवुड्डिमकुव्वमाणो न कम्माणं जयं करेसिता सव्वं सम्मं आलोएहि इति । इति पुनर्न किमपि तस्य प्रतिकुञ्चतं ज्ञातं भवति तदा नासावश्वदृष्टान्तः क्रियते, स्वभावत एव तस्य सम्यगालोचकत्वात्, तस्य च शुद्धस्य मासिकं परिहारस्थानं प्राप्तस्य प्रायश्चित्तं भवति मासः, इतरस्य तु कृतप्रतिकुञ्चनस्य तच्चापन्नं मासिकं प्रायश्चित्तमिदं चान्यत् मायानिष्पन्नं मासगुरु, इति गाथार्थः ॥
सम्प्रति यदुक्तं 'जह दंडियस्स' त्ति तद्विभावयति'अत्थुप्पत्ती असरिसनिवेयणे दंड पच्छ ववहारो ।
इय लोउत्तरम्मि वि, कुंचियभावं तु दंडेति ॥ १९॥ [ व्य.भा./३२२ ] उत्पद्यते यस्मादिति उत्पत्तिः, अर्थस्योत्पत्तिरर्थोत्पत्तिः, अर्थश्चोत्पद्यते व्यवहारात् अर्थोत्पत्तिर्व्यवहार उच्यते तस्यामर्थोत्पत्तौ करणव्यवहारे असदृशनिवेदने दण्डः, इयमत्र भावना-यथा कोऽपि पुरुषोऽपन्यायपीडितो राजकरणमुपस्थितो निवेदयति-अहं देवदत्तेन अपन्यायेन पीडितः ततः कारणिकाः पृच्छन्ति - कथमन्याय: संवृत्तः ? सोऽकथयत् कथिते करणपतिर्बते - पुनः कथय, ततो भूयः कथयति, ततः पुनरपि ब्रूते यो कथय, तत्र यदि तिसृष्वपि वेलासु सदृशं वक्ति ततो ज्ञायते यथाऽनेन यथावस्थितः सद्भावः कथितः । अथ विसदृशं ततो जानाति करणपतिरेष प्रतिकुञ्च्य कथयति, ततः स निर्भर्त्सयति-किमिति राजकुलेऽपि समागतस्त्वं मृषा वदसीति पूर्वं मायामृषाप्रत्ययं दण्ड्यते । ‘पच्छ ववहारो' त्ति पश्चाद् व्यवहारं कार्यते, व्यवहारेऽपि यदि पराजितो भवति ततो द्वितीयवेलं दण्ड्यते, एष दृष्टान्ते दान्तिकयोजनमाह - 'इय' इत्यादि । एवमुक्तप्रकारेण लोकोत्तरेऽपि वारत्रयमालोचनादापनेन यदि कुञ्चितो भावो ज्ञातो भवति
१. दारगाथा ।
D:\ratan.pm5\5th proof