________________
श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङ्गः]
२७७ वा वारावालोचिते अनेन प्रतिकुञ्चनयाऽऽलोचितमप्रतिकुञ्चनया वेति विशेषं नावबुध्यते, ततस्त्रीन् वारानालोचापयन्ति । कथम् ? इति चेत् , उच्यते-प्रथमवेलायां निद्रायमाण इव शृणोति, ततो ब्रूते निद्राप्रमादं गतवानहमिति न किमप्यश्रौषमतो भूयोऽप्यालोचय, द्वितीयवारमालोचिते भणति न सुष्ठ मयाऽवधारितमनुपयोगभावादतः पुनरप्यालोचय, एवं त्रिष्वपि वारेषु यदि सदृशार्थमालोचितं ततो ज्ञातव्यमेषोऽप्रतिकुञ्चोऽमायावी, अथ विसदृशं तर्हि ज्ञातव्यमेष परिणामतः कुञ्ची कुटिलो मायावी, अथैकं द्वौ वा वारावालोचनादापनेन मायावी किं नोपलभ्यते येन त्रीन् वारानित्युक्तं उच्यते-उपलभ्यते परं स्फुटतरोपलब्धिनिमित्तं त्रीन् वारानालोचाप्यते, तस्यापि च प्रत्ययो भवति यथाऽहं विसदृशभणनेन मायावी लक्षितः ततो मायानिष्पन्नं मासगुरुप्रायश्चित्तं पूर्वं दातव्य तदनन्तरमपराधनिमित्तं प्रायश्चित्तमिति ।।
अत्रैवार्थे दृष्टान्तमाह१तिन्नि उ वारा जह दंडियस्स, पलिउंचियंमि अस्सुवमा ।
सुद्धस्स होइ मासो, पलिउंचिइ तं चिमं चण्णं ॥१८॥[व्य.भा./३२१] दण्डिको नाम करणपतिस्तस्य यथाऽन्यायपीडितं करणमुपस्थितं किं मायाव्येषोऽमायावी वेति परिज्ञानाय त्रीन् वारानपन्यायमुच्चारयितुमभियोगः । एवं श्रुतव्यवहारिणोऽपि अतीचारशल्यपीडितं प्रायश्चित्तव्यवहारार्थमुपस्थितं एष प्रतिकुञ्चनापरो न वेति परिज्ञानार्थं त्रीन् वारानुच्चारयितुं संरम्भः, ततो यदा श्रुतव्यवहारिभिस्त्रि:कृत्व आलोचनाप्रदापनेनागमव्यवहारिभिः प्रथमवेलायामागमबलेन तस्य प्रतिकुञ्चितकौटिल्यं ज्ञातं भवति तदा तस्मिन् प्रतिकुञ्चिते ज्ञाते अश्वोपमा-अश्वदृष्टान्तः क्रियते यथा-आर्य ! शृणु तावदिदमुदाहरणम्-जहा कस्स वि रन्नो एगो अस्सो सव्वलक्खणसंजुत्तो धावणपवणसमत्थो, तस्स आसस्स गुणेणं अजेयो, सो राया सव्वे सामंतराइणो आणावेइ, ताहे सामंतराइणो अप्पप्पणो सभासु भणंति नत्थि कोइ एरिसो पुरिसो जो तं हरित्ता आणेइ, सव्वेहिं भणियं सो पुरिसपंजरत्थो चिट्ठइ गच्छए वा न सक्का हरिउं, एगस्स रण्णो एगेण पुरिसेण भणियं-जइ सो मारेयव्वो तो मारेमि, ताहे रन्ना भणियं मा अम्हं तस्स वा भवउ घाएह त्ति, ततो सो तत्थ गओ, तेणछन्नपदेसं ठिएण श्लक्ष्णाया ईषिकाया अग्रभागे
१. आसेण य दिलुतो, चउव्विहं तिण्णि दंडिएण जहा। नि.भा.६३९३ पूर्वा । २. व्य.नि.७२ गा.।
D:\ratan.pm5\5th proof