________________
[ श्रीविचाररत्नाकरः 'आगमसुयववहारी' त्ति व्यवहारिशब्दः प्रत्येकमभिसम्बध्यते आलोचनार्हो द्विविधः, तद्यथा—आगमव्यवहारी श्रुतव्यवहारी च तत्रागमतो व्यवहारी षड्विधः, तद्यथाकेवली-केवलज्ञानी, ‘मणोहि' त्ति 'पदैकदेशे पदसमुदायोपचारात्' मन: पर्यायज्ञानी अवधिज्ञानी च, ‘चोद्दसदसनवपुवी' त्ति पूर्वशब्दः प्रत्येकमभिसम्बध्यते चतुर्दशपूर्वी दशपूर्वी नवपूर्वी च ज्ञातव्याः, एते च आगमव्यवहारिणः- प्रत्यक्षज्ञानिन उच्यन्ते चतुर्दशादिपूर्वबलसमुत्थस्यापि ज्ञानस्य प्रत्यक्षतुल्यत्वात् । तथा हि-येन यथा योऽतिचारः, कृतस्तं तथा सर्वमेते जानन्तीति ।
२६]
'पम्हुट्टे पडसारण, अप्पडिवज्जंतयं न खलु सारे ।
जइ पडिवज्जइ सारे, दुविहऽतियारं पि पच्चक्खी ॥१६॥ [ व्य. भा. / ३१९] प्रत्यक्षी-प्रत्यक्षज्ञानी आगमव्यवहारीत्यर्थः द्विविधमपि मूलगुणविषयमुत्तरगुणविषयं चातिचारमालोचयन्तो यत्किमपि आलोचनीयम् । 'पम्हुट्ठे'त्ति विस्मृतं भवति ततस्तस्मिन् विस्मृते प्रतिसारणं करोति, यथाऽमुकं तवालोचनीयं विस्मृतमिति तदप्यालोचयति, केवलं यदि केवलज्ञानादिबलेनैतज्जानाति यथैष भणितः सन् शुद्धभावत्वात् सम्यक् प्रतिपद्यते । 'वर्त्तमानसामीप्ये वर्त्तमानवद्वा' इति वचनतो भविष्यति वर्त्तमानाभिधानात्-प्रतिपत्स्यते इति तदा स्मारयति, यदि पुनरेतदवगच्छति यथैष भणितोऽपि सन्न सम्यग्प्रतिपत्स्यते इति, तदा तमप्रतिपद्यमानं - अप्रतिपत्स्यमानं न खलु नैव स्मारयति, निष्फलत्वात् । अमूढलक्षो हि भगवानागमव्यवहारी, अत एव दत्तायामप्यालोचनायां यद्यालोचकः सम्यगावृत्तो ज्ञातस्ततस्तस्मै प्रायश्चित्तं प्रयच्छति अथ न प्रत्यावृत्तस्ततो न प्रयच्छतीति ॥
श्रुतव्यवहारिणः प्राह
कप्पपकप्पी उ सुए आलोयावेंति ते उ तिक्खुत्तो ।
सरिसत्थमपलिउंची, विसरिसपरिणामतो कुंची४ ॥१७॥ [ व्य.भा./३२० ] कल्पग्रहणेन दशाश्रुतस्कन्ध-कल्पव्यवहारा गृहीताः प्रकल्पग्रहणेन निशीथः कल्पश्च प्रकल्पश्च कल्पप्रकल्पं तदेषामस्तीति कल्पप्रकल्पिनः, दशाकल्पव्यवहारादिसूत्रार्थधराः, तुशब्दत्वात् महाकल्पश्रुतमहानिशीथनिर्युक्तिनिशीथपीठिकाधराश्च श्रुते श्रुतव्यवहारिणः प्रोच्यन्ते । तथाऽऽलोचकं त्रिंकृत्वस्त्रीन् वारानालोचापयन्ति, ते ह्येकं द्वौ
१. नि. भा. ६३९४ गा । २. व्य.नि. ७०गा । ३. कप्पपकप्पा नि.भा.६३९५ । ४. व्य.नि. ७१गा. ।
D:\ratan.pm5\5th proof