________________
२७५
श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङः]
कथम् ? इत्याह१जह बालो जंपंतो, कज्जमकज्जं च उज्जु भणइ ।
तं तह आलोएज्जा, मायामयविप्पमुक्को उ॥१३॥ यथा बालो मातुः पितुर्वा पुरतो जल्पन् कार्यमकार्यं च ऋजुकं-अकुटिलं भणति तथा आलोचकोऽपि मायामदविप्रमुक्तः सन् तदालोचनीयं यथा ऋजुकभावेनालोचयेत् ।।
आलोचनायाश्चेमे गुणाः२लहुयाल्हादीजणणं, अप्पपरनियत्ति अज्जवं सोही ।
दुक्करकरणं विणओ, निस्सल्लत्तं च सोहिगुणा ॥१४॥ [व्य.भा./३१७] लघो वो लघुता, यथा भारवाही अपहृतभारो लघुर्भवति तथा आलोचकोऽप्युद्धृतशल्यो लघुर्भवति इति लघुता, तथालादनं, ह्लादिरोणादिक इप्रत्ययः प्रह्लत्तिस्तस्य जननं उत्पत्तिबदिजननं प्रमोदोत्पाद इति यावत् , तथा ह्यतीचारधर्मोपतप्तस्य चित्तस्य मलयगिरिपवनसम्पर्केणेवालोचनाप्रदानेनातीचारधर्मापगमो भवति संविग्नानां महामुनीनां परमः प्रमोद इति, तथा 'अप्पपरनियत्ति' आलोचनाप्रदानतः स्वयमात्मनो दोषेभ्यो निवृत्तिः कृता, तं च दृष्ट्वाप्यन्ये आलोचनाभिमुखा भवन्तीत्यन्येषामपि दोषेभ्यो निवर्त्तनमिति, तथा यदतीचारजातं प्रतिसेवितं तत्परस्मै प्रकटयतामात्मन आर्जवं सम्यग् विभावितं भवति, आर्जवं नामामायाविता, तथा अतीचारपङ्कमलिनस्यात्मनश्चरणस्य वा प्रायश्चित्तजलेनातीचारपङ्कप्रक्षालनतो निर्मलताशोधिः, तथा दुष्करकरणंदुष्करकारिता तथा हि-यत्प्रतिसेवनं तन्न दुष्करं, अनादिभवाभ्यस्तत्वात् , यत्पुनरालोचयति तद्दुष्करं, प्रबल-मोक्षानुयायिवीर्योल्लासविशेषेणैव तस्य कर्तुं शक्यत्वात् तथा 'विणउत्ति आलोचयता चारित्रविनयः सम्यगुपपादितो भवति। 'निस्सल्लत्तं' ति सशल्य आत्मा निःशल्यः कृतो भवतीति निःशल्यता, एते शोधिगुणाः-आलोचनागुणाः, आलोचनाशोधिरित्यनर्थान्तरत्वम् ।।
अथ कस्य समीपे आलोचना दातव्या ? उच्यते-आगमव्यवहारिणः श्रुतव्यवहारिणो वा । तथा चाह
३आगमसुअववहारी, आगमओ छव्विहो उ ववहारी। केवलिमणोहिचोद्दसदसनवपुव्वी उ नायव्वो ॥१५॥[व्य.भा./३१८ ]
१. ह.प्रतिषु एता गाथा नास्ति । नि.भा.६३९२गा. । २. लहुयल्हादी पा. । ३. व्य.नि.६९ गा. । ४. नि.भा.६३९३गा.।
D:\ratan.pm5\5th proof