________________
२८]
[श्रीविचाररत्नाकरः दिवसादारभ्य यावन्तं कालं पूर्यते तस्मिन् देशे ततो दिवसादारभ्य तावन्तं कालं स्वाध्यायं न कुर्वन्ति । प्रतिपत्पुनः सर्वेषां पर्यन्तः, "सव्वेसिं जाव पडिवंतो"[ ] इति वचनात् । सुग्रीष्मकश्चैत्रमासभावी पुनर्महामहः सर्वेषु देशेषु शुक्लपक्षप्रतिपद आरभ्य चैत्रपौर्णमासीप्रतिपत्पर्यन्तो नियमात् प्रसिद्धस्ततो यद्यध्वानं प्रतिपन्नस्तथाऽपि चैत्रमासस्य शुक्लपक्षप्रतिपद आरभ्य सर्वं पक्षं पौर्णमासीप्रतिपत्पर्यन्तं यावदवशमनागाढो योगो निक्षिप्यते । शेषेषु आगाढादिकेषु योगो न निक्षिप्यते, केवलं स्वाध्यायं न कुर्वन्ति । इति श्रीव्यवहारभाष्यवृत्तौ सप्तमोद्देशके ६५९ वृतौ ५०८ पत्रे ।।
इति श्रीव्यवहारविचाराः समाप्ताः॥ अथ श्रीपञ्चकल्पविचारा:-तत्र च पूर्वं साधुभिर्मलमूत्रादिपीडा न रक्षणीयेत्यभिप्रायो लिख्यते
मुत्तनिरोहे चक्खं, वच्चणिरोहेण जीविअं हणइ ।
छद्दनिरोहे कोर्से, सुक्कनिरोहे भवे अपुमं ॥१॥[पञ्च.भा./७५२ ] एतच्चूर्णिर्यथा-मूत्रनिरोधे चक्षुस्तस्मान्मूत्रनिरोधे चक्षुरुपघातो भवति, पुरीषनिरोधे च जीवितोपघातः, छर्दिनिरोधे च कुष्ठोत्पत्तिः शुक्रनिरोधे चापौरुषं स्यादिति । आह-यद्येवं शुक्रनिरोधेऽपुरुषत्वं भवति नन्वेवमनवस्था, यस्मादमी भगवन्तः साधवः पूर्वकोट्यायुष्का अपि ब्रह्म धारयन्ति, न च तेषामपुमत्वं भवत्यतः समयविरुद्धामुदाहृतम् , आचार्य आह-न सिद्धान्तापरिज्ञानात् , इह सामस्त्येन सूत्रमभिहितम् , तत्र ये ते शकुनी तत्कर्मसेवी पक्षिकापक्षिक इालुकाद्याउत्कटवेदास्तान् प्रतीत्य सूत्रनिपात:, यस्मात्तेषां वेदप्रादुर्भावनिरोहेण नपुंसकत्वमापद्यते इत्यतो न विरोधः । इति श्रीपञ्चकल्पभाष्यचूर्णी वृद्धसङ्घसत्कद्वादशे पत्रे । इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते
श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि अपरतटे __ श्रीव्यवहारपञ्चकल्पविचाराः समाप्ताः ॥
अनेकसिद्धान्तविचारत्नरम्ये गुरूपासनमार्गलभ्ये । विचाररत्नाकरनामशास्त्रेऽपरं तटं प्राप्तमिदं समाप्तिम् ॥१॥ ॥ समाप्तं चेदं छेदग्रन्थविचारसमुच्चयनामाऽपरतटम् ॥
D:\ratan.pm5\5th proof