________________
श्रीविचाररत्नाकरे ॥ सङ्कीर्णविचारसमुच्चयः ॥ येन प्रवचनमेतद्विहितं सहितं हितोपदेशेन ।
तमहितरहितं सुरनरमहितं श्रीजिनप्रति स्तौमि ॥१॥ अथ निरनुक्रमं प्रकीर्णकप्रकरणादिसङ्कीर्णविचारा लिख्यन्ते
अहवा सव्वं चिय, वीयरायवयणाणुसारि जं सुकटं।
कालत्तए वि तिविहं, अणुमोएमो तयं सव्वं ॥ अथवेति सामान्यरूपप्रकारदर्शनो । चिय एवार्थे ततः सर्वमेव वीतरागवचनानुसारिजिनमतानुयायि यत्सुकृतं जिनभवनबिम्बकारणतत्प्रतिष्ठासिद्धान्तपुस्तकलेखनतीर्थयात्राश्रीसङ्घवात्सल्यजिनशासनप्रभावनाज्ञानाद्युपष्टम्भधर्मसान्निध्यक्षमामार्दवसंवेगादिरूपं मिथ्यादृग्सम्बन्ध्यपि मार्गानुसारि कृत्यं कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारितमनुमतं च यदभूद्भवति भविष्यति चेति तकत् इति तच्छब्दात् 'त्यादिसर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक्' (७-३-२९) इत्यादिसूत्रेण स्वार्थेऽक्प्रत्यये रूपं तदित्यर्थः तत्सर्वं निरवशेषमनुमोदयामो-अनुमन्यामहे हर्षगोचरतां प्रापयाम इत्यर्थः । बहुवचनं चात्र पूर्वोक्तचतुःशरणप्रतिपत्त्या उपार्जितपुण्यसम्भारत्वेन स्वात्मनि बहुमानसूचनार्थम् । इति श्रीचतुःशरणप्रकीर्णके ५८ गाथायाम् ॥१॥ तथाऽऽराधनापताकायामपि
जो जारिसओ कालो, भरहेरवएसु होइ वासेसु । ते तारिसया तइया, अडयालीसं तु निजवग्गा ॥१॥[ आ.प./३९] एए उक्कोसेणं, परिहाणीए जहन्नओ दुन्नि ।
एगो परित्तिपासे, बीओ पाणाइगच्छेज्जा ॥२॥[आ.प./४०] कियदग्रतश्च-सेसाणं जीवाणं, दाणरुइत्तं सहावविणियत्तं ।।
तह पयणुकसायत्तं, परोवयारित्तं भव्वत्तं ॥१॥[आ.प./३१० ]
D:\ratan.pm5\5th proof