Book Title: Swadhyay 1998 Vol 35 Ank 01 02
Author(s): Rajendra I Nanavati
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay

View full book text
Previous | Next

Page 104
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० શ્વેતા પ્રજાપતિ मुक्तिवादः श्रीगणेशाय नमः । आत्यन्तिकी दुःखनिवृत्तिर्मुक्तिरित्याचार्याः । तत्र दुःखनिवृत्तिनिष्ठात्यन्तिकत्वं स्वसमानाधिकरणदुःखप्रागभावासमानकालीनत्वम् । तथा च स्वसमानाधिकरणदुःखप्रागभावासमानकालीनदुःखध्वंसो मोक्ष इति निर्गलितलक्षणं वाक्यार्थः । अत्र स्वपदं स्वलक्ष्याभिमतमुक्त्यात्मकदुःखध्वंसपरम्। प्रलयपूर्वकालीनमुक्त्यात्मकदुःखध्वंसानां पुरुषान्तरीयदुःखप्रागभाव(वा) समानकालीनतया तत्राव्याप्तिवारणाय स्वसमानाधिकरणेति । इदानीन्तनदुःखध्वंसेऽतिव्याप्तिवारणाय दुःखप्रागभावासमानकालीनेति । न च दुःखासमानकालीनत्वविशेषणोपादानेनैव तत्रातिव्याप्तिवारणसंभवे कि प्रागभावविशेषणे नेति वाच्यम् । यथासं निवेशेन वैय्याभावात् । तथाप्यनतिप्रयोजकत्वं तस्येति चेत्तर्हि प्रागभावा(व)घटितोपदर्शितविशेषणस्यैव शरणी?)करणीयत्वात् । ननु स्वसमानाधिकरणदुःखासमानकालीनदुःखध्वंसत्वस्य मुक्तित्वरूपत्वे तस्य तत्त्वज्ञानजन्यतावच्छेदकत्वानुपपत्तिः । तथाहि तत्र स्वपदं दुःखध्वंससामान्यपरम् । दुःखीयतत्तदध्वंसपरं वा ? नाद्यः । मुक्त्यात्मकदुःखध्वंसस्यापि दुःखध्वंससामान्यान्तर्गतपुरू(रु) षान्तरीयदु:खध्वंससामानाधिकरणदुःखसमानकालीनतया तद्घटितोपदर्शितधर्माप्रसिद्धः । नान्त्यः । तथाविधकार्यकारणभावस्य तत्तद्व्यक्तिविश्रान्ततया आवश्यकत्वे तत्तद्व्यक्तित्वावच्छिन्न प्रति तत्त्वज्ञानस्य हेतुत्वकल्पने लाघवसंभवेनालं तादृशगुरू(रु)धर्मस्य तज्जन्यतावच्छेदकत्वाङ्गीकारेणेति चेत् , संभवत्येवमुपदर्शितधर्मस्य कार्यतावच्छेदकत्वे, तदेव न । वयं तु स्वसामानाधिकरण्यकालिकविशेषणतोभयसंबंधेन दुःख[स्य] वा भूयस्तदिन्नदुःखध्वंसत्वस्य जन्यतावच्छेदकत्वमुररीकुर्महे । अत्र स्वत्वस्य परिचायकतया कार्यतावच्छेदककोट(टा) विनिवेशेन नोपदर्शितविकल्पावसर इति । न च तादृशधर्मस्य निरू(रु) क्तिर्मुक्तिभिन्नत्वे मुक्तित्वावच्छिन्नं प्रति तत्त्वज्ञानहेतुतानुपपत्तिर्जागरुकैवेति वाच्यम् । मुक्तित्वरूपत्वस्यापि लाघवेन तत्रैवाङ्गीकारात् । __ केचित्तु स्वसमानाधिकरणदुःखप्राग]भावासमानकालीनदुःखध्वंसत्वस्य मुक्तित्वरूपत्वे तत्र तत्त्वज्ञानजन्यतावच्छेदकत्वस्योप [दर्शिता] - - - पत्तिग्रस्ततया चरमदुःखध्वंसो मुक्तिरिति मुक्तिलक्षणम् । दुःखनिष्ठचरमत्वं - - - विजातीयं यदुःखं तद्ध्वंसत्वं तत्त्वज्ञानजन्यतावच्छेदकमित्यामनन्ति । तत्रेयमनु- - - । चरमत्वस्य दुःखवृत्तिजातित्वं न संभवति प्रमाणाभावात् । न च तत्त्वज्ञानजन्यतावच्छे [दकत्वं तस्य] - - - स्पष्टतया तादृशजातिसिद्धिरिति वाच्यम् । गोवधादिजन्यतावच्छेदकदुःखवृत्तिजातिविशेषेण [तस्य] - - - [सांकर्यात् । तथाहि गोवधजन्यतावच्छेदिका जातिरिदानीन्तनगोवधजन्यदु:खे तत्र न चरमत्वम् । चरमत्वेऽपि क्वचिद् गोवधजन्यचरमदुःखे तत्र च न सा । यत्र च गोवधजन्यदुःखमेव चरमं तत्र तदुभयोः समावेशात् । તૂટકરેખા દર્શાવતા ભાગમાં હસ્તપ્રત વિક્ષત થયેલ છે. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131