Book Title: Swadhyay 1998 Vol 35 Ank 01 02
Author(s): Rajendra I Nanavati
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૦૪
શ્વેતા પ્રજાપતિ
एवं भाभा) मुमते तत्त्वज्ञानस्य कार्यतावच्छेदकं निरवच्छिन्नत्वविशिष्टज्ञानत्वमुतकालिकसंबन्धेन यद् घटत्वादिमत्त दविशिष्टसुखत्वं वा विषयितासंबन्धेन तत्कार्यतावच्छेदकमिति विनिगमनाविरहात् कार्यकारणभावानन्त्यकल्पनमपि गौरवम् । न च तदा गुणत्वेनैव नित्यसुखसाक्षात्काराङ्गीकारात् नोपदर्शितविनिगमनाविरहसंभव इति वाच्यम् । तदा तत्र सुखत्वभाने बाधकाभावात् । तदर्थं प्रतिबध्यप्रतिबंधकभावकल्पने तु तस्यैव गौरवसंपादकत्वादिति । एव भाभा)ट्टमते मनः संयुक्तसमवायरूपकारणबलात् संसारितादशायां नित्यसुखसाक्षात्कारापत्तिः । न च तादृशसाक्षात्कारं प्रति तत्त्वज्ञानत्वेन हेतुतया इदानीन्तनतत्त्वज्ञानरूपकारणाभावेन न नित्यसुखविषयकसाक्षात्कारापत्तिरिति वाच्यम् । तत्त्वज्ञान विनापि मनः संयुक्तसमवायेन ज्ञानादिसाक्षात्कारजनने संसारितादशायामपि तादृशकारणबलान्नित्यसुखविषयकसाक्षात्कारापत्ते १ वारत्चात् । न च नित्यसुखभिन्नविषयतासंबन्धेन प्रत्यक्षत्वावच्छिन्नं प्रति नित्यसुखभेदस्यापि हेतुत्वकल्पनीयम् । तथा च मनःसंयुक्तसमवायेन फलजनने कुत्र चिन्नित्यसुखभेद: सहकारी कुत्रचित्तत्त्वज्ञानसहकारि(री)ससारितादशायां तु नित्यसुखे तयोरन्यतराभावेन मनःसंयुक्तसमवायरूपकारणबलान्नापत्तिरिति वाच्यम् । तथाविधातिरिक्तकार्यकारणभावकल्पनागौरवस्य भ(भा)दृमते दुष्परिहारत्वात् ।
। यत्तु दुरितवद्भिन्नदुरितध्वंसत्वरूपतत्त्वज्ञानजन्यतावच्छेदककोटौ दुरिते प्रारब्धदुरितान्यत्वमवश्यं विशेषणीयम् । “प्रारब्धकर्मणां भोगादेव क्षय इति श्रुतिविरोधेन तत्त्वज्ञानात्प्रारब्धकर्मनाशसम्भवात् । एवञ्च दुरितवद्धिन्नदुरितध्वंसत्वमपि न तत्त्वज्ञानकार्यतावच्छेदकम् । तत्त्वज्ञानजन्यदुरितनाशस्य प्रारब्धदुरितवत्तया तद्धर्मावच्छिन्नस्य तस्मादुत्पत्त्यसंभवात् । किन्तु प्रायश्चित्ताघनाश्यभोगानाश्यदुरितनाशत्वमेव । तथा च दुरितवद्भिन्नदुरितनाशस्य मुक्तित्वमते मुक्तित्वावच्छिन्न प्रति तत्त्वज्ञान हेतुत्वासंभवेन मुक्तितत्त्वज्ञानकार्यकारणाभावबोधिका श्रुतिविरुध्येतेति । न च श्रुतिबलात्तादृशकार्यकारणभावोऽपि कल्पनीय इति वाच्यम् । भोगजन्यदु रितस्य दुरितवद्भिन्नदुरितध्वंसरूपतया तत्र भोगे नान्यथासिद्धत्वेन श्रुतिबलादपि तत्त्वज्ञानहेतुत्वकल्पनासंभवात् । अत एवाहुः प्रामाणिकाः - "न हि बाधितमर्थं वेदोऽपि बोधयती ति नित्यसुखाभिव्यक्तेर्मुक्तित्वस्वीकारे तु तदवच्छिन्नं प्रति तत्त्वज्ञानहेतुतायां बाधकाभावात् तद्बोधकश्रुतेरखर्वगर्वता निर्वहतीति तदसत् । तत्त्वज्ञानबलान्न भवत्येव तावत् दुरितनाशे यावत् प्रारब्धकर्मणां न भोगान्नाशः । किन्तु 'प्रारब्धकर्मणां भोगान्नाशे सति तदुत्तरं तत्त्वज्ञानबलात्प्रारब्धान्यदु रितनाश उपगम्यते । तथा च दुरितवदिन्नदुरितनाशत्वस्य मुक्तित्वरूपत्वे तदवच्छिन्नं प्रति तत्त्वज्ञानहेतुत्वकल्पनं न विरू(रु) द्धम् । तज्जन्यदुरितनाशस्य भोगाजन्यतयाऽन्यथासिद्धेरभावात् । तस्माद्दर्शितबहुविधलाघवसत्वात् बाधकाभावाच्च दुरितवद्भिन्नदुरितध्वंसस्यैव मुक्तित्वे समुपपन्ने नित्यसुखाभिव्यक्तेर्मुक्तित्वमङ्गीकर्तृणां भट्टानुयायीनां तत्र मुक्तिचिन्ताव्यामोह: स्वान्तःकरणमोहायैवेति सारम् ।
___ अत्राहुरद्वैतविद्याविदो धुरन्धराः । तत्त्वज्ञानस्य कार्यतावच्छेदकं न दुरितवन्दिन्नदुरितध्वंसत्वम् । तस्य तत्त्वे पूर्वदर्शितविनिगमनाविरहेण कार्यकारणभावानन्त्यप्रयुक्तगौरवस्य दुष्परिहारत्वात् । किन्त्वज्ञाननिवृत्तित्वमेव । तथा च तत्त्वज्ञानादविद्यानिवृत्तौ तत्त्वज्ञानकालीनो यो नित्यानन्दस्वरूपशुद्धबुद्धात्मकचैतन्यस्वरूपात्मनः प्रकाशः स एव मोक्षः । न च तथाविधप्रकाशस्य नित्यतया न तत्र मोक्षत्वसंभवः । मोक्षत्वस्य फलवृत्तित्वादिति वाच्यम् । पूर्वस्थितस्य तथाविधप्रकाशस्य कण्ठगतविस्मृतचामीकरन्यायेन तदप्राप्तं प्राप्तमिति मत्वा प्राप्तस्य फलत्वभ्रान्त्या मोक्षत्वस्य फलवृत्तित्वं मन्यते । न तु वास्तवं तदपेक्षितमित्यङ्गीकारात् । अथवाऽज्ञाननिवृत्तिरेव मुक्तिः । युक्तं चैतत् । अन्यथा तथाविधस्वप्रकाशस्य मुक्तित्वे मुक्ति प्रति तत्त्वज्ञानकारणताबोधकवेदस्य लक्षणा कल्पना] पत्तेः ।
नन्वज्ञानपदस्य ज्ञानात्यन्ताभावार्थकतया तस्य च नित्यतया तन्नाशसंभवेन सर्वमिदं दुर्घटम् । यदि
For Private and Personal Use Only
Loading... Page Navigation 1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131