Book Title: Swadhyay 1998 Vol 35 Ank 01 02
Author(s): Rajendra I Nanavati
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay

View full book text
Previous | Next

Page 109
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir रघुवकृत 'भुतिवा' ૧૦૫ चाद्वैतवादिनां ब्रह्मातिरिक्तस्यानित्यतया अभावस्याप्यनित्यत्वसंभवे नोपदर्शितानुपपत्तिरिति विभाव्यते तथाप्यभावस्य हेतुत्वानङ्गीकर्तृणां तेषामज्ञानस्य मूलप्रकृत्यपरनामकस्य प्रपञ्चोपादानकारणत्वासंभवेनाज्ञाननाशात् प्रपञ्चनाशाभावादनर्थनिवृत्त्यसंभवेनाज्ञाननाशस्य मुक्तित्वकथनं दुरुपवादमेवेति चेत् , सत्यमेतत् । अज्ञानस्य ज्ञानाभावरूपत्वे, तदेव न । तैरज्ञानस्यातिरिक्तभावरूपत्वाङ्गीकारात् । न च तत्र मानाभावः । अहं ब्रह्म न जानामी त्यनुभवविषयान्यथानुपपत्तेरेव मानत्वात् । न च ब्रह्मज्ञानात्यन्ताभाव एव तादृशानुभवविषयः । विशिष्टबुद्धि प्रति विशेषणज्ञानहेतुत्वस्य लप्ततया पूर्व ब्रह्मज्ञानस्यावश्यभावे न विषयासत्वात् । तदा ब्रह्मज्ञानाभावविषयकतथाविधानुभवस्यासंभवात् । न च ब्रह्मज्ञानप्रागभावतादृशप्रतीतेविषयः । तत्र मानाभावात् । प्रमाणसद्भावेऽपि लाघवादतिरिक्तभावरूपाज्ञानस्य तादृशप्रतीतेविषयत्वसत्वाच्च । एतेन 'ब्रह्म न जानामी'त्येतादृशप्रतीतेः श्रवणमननादिप्रयोज्यमोक्षजनकब्रह्मज्ञानाभावो ब्रह्मनिर्विकल्पकाभावो वा विषय इत्यपि परास्तम् । श्रवणमननादिप्रयोज्यत्वादेरनुपस्थितिदशायामपि तथाविधानुभवस्य सर्वानुभवसाक्षिकत्वाच्च । न च स्वभिन्न श्रवणमननप्रयोज्यज्ञानविशिष्टसमवायसंबन्धावच्छिन्न प्रतियोगिताकस्तथाज्ञानाभाव एव स्वभिन्न निष्प्रकारकज्ञानविशिष्टसमवायसंबन्धावच्छिन्नप्रतियोगिताकज्ञानाभावो वा तादृशानुभवविषयः । संबन्धविषयताशालिबुद्धौ संबन्धज्ञानस्यानपेक्षिततया श्रवणमननादिप्रयोज्यत्वज्ञानशून्यकालेऽपि तथाविधसांसर्गिक़विषयताशालिबोधे बाधकाभावादिति वाच्यम् । तथाविधस्य संबन्धत्वे प्रमाणाभावात् । प्रमाणसत्वे वा तादृशानुभवस्यातिरिक्ताज्ञानविषयत्वोपगमे लाघवस्योक्तत्वाच्च । तथा चाज्ञानपदार्थाभावः , 'अहं न जानामि' इति प्रतीतिविषयत्वात् । अहं पदार्थवदित्यनुमानादुपदर्शितलाघवतर्कसहकृताद्भावरूपाज्ञानसिद्धिः । तत्त्वविवेककृतस्तु समाधिकालीन कार्ये जडोपादानं कार्यत्वात् घटवदित्यनुमानाज्जडोपादानस्यैकत्ववत्वे लाघवमिति लाघवज्ञानसहितात्सर्गाद्यकालीनकार्योपादानमज्ञानरूपं सिद्ध्यति । एवमनादिभावत्वं ज्ञाननिर्वृत्त्यवृत्तिजडवृत्तित्वात् जडघटत्वादिवदित्यनुमानाद्वाऽतिरिक्ताभावरूपाज्ञान सिद्धिरित्याहुः । तस्मादेतादृशयुक्त्या सिद्धे ब्रह्माज्ञाने नैयायिकमतमपेक्ष्य पूर्वदर्शितलाघवात्तादृशाज्ञाननिवृत्तित्वावच्छिन्नं प्रति तत्त्वज्ञानत्वेन हेतुत्वकल्पनम् । तस्यापि च मुक्तित्वं साधीय इति (साधीयमिति) । अथ तत्त्वज्ञानजन्याज्ञाननिवृत्तिर्ब्रह्मस्वरूपा तस्मादतिरिक्ता वा । नाद्यः । प्रपञ्चस्य विद्यमानतादशायामपि नित्यशुद्धबुद्धस्वभावस्वप्रकाशानन्दात्मकब्रह्मसत्वे न तत्स्वरूपाज्ञाननिवृत्तेरपि तदा सत्वात्तदानीमपि जीवस्य मुक्तित्वप्रसङ्गात् । एवं ब्रह्मस्वरूपतादृशाज्ञाननिवृत्तेर्नित्यतया तत्र तत्त्वज्ञानजन्यतानुपपत्तेश्च । न द्वितीयः । अद्वैतवादिनां वेदान्तिनां द्वैतवादापत्तेरिति चेदत्र केचिदज्ञाननिवृत्तिरनिर्वचनीया ब्रह्मतोऽतिरिक्ता न चाद्वैतवादापत्तिः । ब्रह्मातिरिक्तपारमार्थिकाभावस्याद्वैतपदार्थतया तथाविधद्वैतस्वीकारे वेदान्तिनां क्षतिविरहात् । न च ब्रह्मातिरिक्ताज्ञाननिवृत्तिस्वीकारे "नेह नानास्ति किञ्चन (बृ. उ. ४.४.१९) इति श्रुतिविरोध इति वाच्यम् । तादृशश्रुतेः ब्रह्मातिरिक्तपारमार्थिकनिषेधपरतयानुपपत्त्यभावात् । केचित्तु अद्वैतपदस्य ब्रह्मातिरिक्तपारमार्थिकभावनिषेधपरतया ब्रह्मातिरिक्तपारमार्थिकाज्ञाननिवृत्तिस्वीकारेऽपि क्षतिविरह इत्याहुरित्यास्तां विस्तरेणेति प्राहुः । ननु कस्तावन्मुक्तिजनकस्तत्त्वज्ञानपदार्थः । न चात्मनि इतराभिन्नत्वज्ञानम् । तस्यानुमानादीनां इदानीमपि संभवादिति चेन्न । श्रवणमननादिप्रयोज्यात्मसाक्षात्कारस्यैव तत्त्वज्ञानपदार्थत्वात् । तथा च श्रुतिः “आत्मा वा रे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यश्चेति । (बृ. उ. २.४.६) । ननु भवतु तादृशज्ञानं तत्त्वज्ञानपदार्थस्तथापि तज्ज्ञानं नैयायिकमते ईश्वरविषयकं जीवात्मविषयक वेति चेज्जीवात्मविषयकमेव तदिति ब्रूमः । ईश्वरात्मनि संन्निकर्षासंभवेन तस्य तद्भिन्नपुरुषप्रत्यक्षासंभवात् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131