Book Title: Swadhyay 1998 Vol 35 Ank 01 02
Author(s): Rajendra I Nanavati
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रघुवित 'मुस्तिवा'
१०
प्रतिष्ठित'मित्यस्य च मोक्षाभिन्नज्ञानविषय इत्यर्थः । सप्तम्या अभेदे लाक्षणिकत्वात् । तथा च आनन्दात्मक आत्मधर्म: मोक्षाभिन्नसाक्षात्कारविषय इत्यर्थकतया नित्यसुखसाक्षात्कारस्य चोपदर्शितश्रुत्या मुक्तित्वप्रतिपादनमिति वाच्यम् । प्रकारान्तरेणोपपत्तिसंभवे श्रुतौ लिङ्गव्यत्यासकल्पनानौचित्यात् । एवं नित्यसुखविषयकसाक्षात्कारत्वस्य मुक्तित्वरूपत्वे तदवछिन्नं प्रति तत्त्वज्ञानत्वेन हेतुत्वं कल्पनीयम् । तत्र नित्यत्व ध्वंसाप्रतियोगित्वं वा प्रागभावाप्रतियोगित्वं वा ? कालिकादिसंबन्धेन घटत्वादि तदिन्नत्वं वे त्यत्र विनिगमनाविरहेण कार्यकारणभावानन्त्यप्रयुक्तगौरवं भाभा)मुमते ।
नैयायिकमते तु तत्त्वज्ञानस्य कार्यतावच्छेदक दुरितवदिन्नदुरितध्वसत्वं तत्तदुरितध्वंसत्वविशिष्टदुरितवद्भिन्नत्वं वेत्यत्र विनिगमनाविरहेण कतिपयकार्यकारणभावकल्पनाधिक्येऽपि लापवमतिस्फुटमेव ।
यत्तु निरवछिन्नज्ञानत्वावछिन्नं प्रति तत्त्वज्ञानत्वेन हेतुता भाट्टमते । निरवच्छिन्नं ज्ञानं च नित्यसुखज्ञानादन्यदलीकमिति नानुपपत्तिः । अत एव मुक्तिदशायां नित्यसुखविषयकज्ञानस्वीकारे ज्ञानत्वावछिन्नं प्रति शरीरत्वेन हेतुतायां व्यभिचार इत्यपि निरस्तम् ।
अवच्छेदकतासम्बन्धेन ज्ञानत्वावछिन्नं प्रति शरीरत्वेन हेतुतया तदा च निरवच्छिन्नज्ञानाङ्गीकारेण व्यभिचाराभावात् । न च तथापि निरवछिन्नत्वज्ञानत्वयोर्विशेष्यविशेषणभावे विनिगमनाविरहेण* कार्यकारणभावानन्त्यमिति वाच्यम् ।
नैयायिकमते तत्त्वज्ञानकार्यतावच्छेदककोटिप्रविष्टदुरितवत्वावच्छिन्नप्रतियोगिताकभेददुरितप्रतियोगिकत्वध्वंसत्वादीनां परस्परं विशेषणविशेष्यभावे विनिगमनाविरहेण कार्यकारणभावकल्पनानन्त्यात् कार्यतावच्छेदकगौरवाश्चेति । न च तथापि तन्मते "अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः ।" (छान्दो. उप. ८.१२.१) इति श्रुतिविरोध इति वाच्यम् ।
तत्र स्पृशधातोरुत्पत्तौ लक्षणया वावशब्दस्य एवकारप्रतिपादितार्थकतया अशरीरस्तदवच्छिन्नत्यत्याश्रयत्वायोगः सुखदु:खयोः प्रतीयते । साम्यप्रतीतिर्न भ(भा)ट्टमतेऽनुपपन्ना । तैस्तदा नित्यसुखाङ्गीकारात् । स्पृशधातोः स्पार्शनार्थकतया प्रकृतेस्तदबोधेन नैयायिकानामपि संबन्धलक्षणया लक्षणायानुभयवादिसिद्धत्वादिति, तन्न ।
"ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुने ति (गीता ४.३७) स्मृत्या तत्त्वज्ञाने दुरितवदभिन्नदुरितनाशजनकत्वस्य प्रत्ययेन दुरितवदभिन्नदुरितनाशत्वावच्छिन्न प्रति तत्त्वज्ञानहेतुत्वस्यावश्यकत्वेन उभयमतसिद्धतया भ(भा)मुमते नित्यसुखसाक्षात्कारत्वस्य मुक्तित्वरूपत्वमङ्गीकृत्य तदवच्छिन्नं प्रति तत्त्वज्ञानहेतुत्वकल्पनागौरवस्य ब्रह्मणोऽपि दुर्वारत्वात् । तादृशस्मृतेरस्वरसतस्तत्त्वज्ञाने सर्वदुरितनाशकत्वप्रतिपादकतया कथं तत्त्वज्ञानदुरितवद्भिन्नदुरितनाशत्वावच्छिन्नप्रतिपादकत्वमिति तु न शङ्कनीयम् । "ना भुक्तं क्षीयते कर्म कल्पकोटिशतैरपि इत्यादि वाक्यैर्भोगस्य दुरितनाशकत्वप्रतिपादनेन तत्र सर्वपदस्योपदर्शितार्थे संकोचकल्पनस्यावश्यकत्वात् । न च तादृशस्मृतिवाक्यस्यार्थवादत्वेनाप्रमाण्यमिति वाच्यम् । “भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावर' (मुण्डक. उप. २.१.८) इति श्रुतितोऽपि तदर्थप्रतिपादनात् । तादृशश्रुतेरप्यर्थवादत्वाङ्गीकारे मुक्तिसाधकश्रुतेरप्यर्थवादत्वापत्या मुक्तेरभावे न तन्निर्वचनप्रयासस्य नैरर्थक्यापत्तेः ।
/
★
एकत्र पक्षपातिनी युक्तिः । - विनिगमनावि२४नी सा व्याच्या सियामां आपदी छे.
For Private and Personal Use Only
Loading... Page Navigation 1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131