Book Title: Swadhyay 1998 Vol 35 Ank 01 02
Author(s): Rajendra I Nanavati
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૦૨
શ્વેતા પ્રજાપતિ
वाच्यम् । 'आयुर्वै घृतम्' इत्यत्र वात्रापि दु:खपदस्य दुःखजनकदुरितलक्षणीयतया विरोधाभावात् । “दु:खे नात्यन्तविमुक्तश्चरतीति” श्रुतेर्मुक्तिदशाया दुःखात्यन्तनिवृत्तिप्रतिपादकत या अविरोधात् । न चानुत्पत्त्स्यमानदुरितोत्तरक्षणिकदुरितस्थले दुरितध्वंसे जायमाने दुरितवद्भिन्नदुरितध्वंसत्वावछिन्नस्यार्थदेशसंपन्नोत्पत्तिकतया दुरितवद्भिन्नदुरितध्वसत्वस्यार्थसमाजग्रस्तत्वे न तत्त्वज्ञानजन्यतावच्छेदकत्वासंभव इति वाच्यम् । अर्थसमाजग्रस्तधर्मस्य कार्यतानवच्छेदकत्चे प्रमाणाभावस्य बीजतया प्रवृत्ते तु मुक्तितत्त्वज्ञानकार्यकारणभावबोधकश्रुतिरूपप्रमाणसंभवेनानुत्पत्यभावात् । न च तथापि सुखदुःखाभावान्यतरस्य पुरुषार्थतया दुरितवदिन्नदुरितध्वंसस्यापुरुषार्थतया मुक्तेरपुरुषार्थत्वप्रसङ्ग इति वाच्यम् । दुःखाभावस्यैव दुःखजनकाभावस्यापि पुरुषार्थत्वाङ्गीकारात् । अभावनिष्ठपुरुषार्थतायां बलवद्वेषविषयाभावत्वस्य नियामकत्वात् दुःखस्यैव तज्जनकेऽपि तज्जनकतया द्वेषसंभवेन दु:खजनकाभावस्यापि द्वेषविषयाभावत्वात् । अत एव दुरितध्वंसमुद्दिश्य प्रायश्चित्तादौ प्रर्वतते लोकः । न च प्रायश्चित्तस्य दुरितध्वंसो न फल किन्तु तदुत्तरकाले दुःखप्रागभावसम्बन्धस्तत्रप्रवृत्तिरपि तमुद्दे श्यैवेति वाच्यम् । प्रायश्चित्तोत्तरकालवृत्तिदुःखप्रागभावसंबन्धस्यार्थपर्यालोचनक्रमेण प्रायश्चित्तफलत्वासंभवात् । तथा हि तादृशदुःखप्रागभावसंबंधो दुःखप्रागभावस्वरूपो वा प्रायश्चित्तोत्तरकालरूपो वा । नान्त्यः । क्रियात्मकतत्कालोपाधेः स्वसामान्याधि(धी) नात्यन्तिकतया तत्र प्रायश्चित्तस्यान्यथासिद्धत्वेन हेतुत्वासंभवात् । नाद्यः । प्रागभावस्याजन्यत्वेन प्रायश्चित्तफलत्वासंभवात् ।
न च तत्रापि योगक्षेमसाधारणं तज्जन्यत्व संभवति । तादृशजन्यत्वं स्वकारणसत्वेऽग्रिमक्षणे फलसत्वं करणासत्वेऽग्रिमक्षणे फलासत्वमित्येवं रूपम् । तथा च न दुःखप्रागभावस्य प्रायश्चित्तफलत्वानुपपत्तिरिति वाच्यम् । तथा सति "प्रायः पापं विजानीयाच्चित्तं तस्य विशोधनम् इति वाक्येन प्रायश्चित्तशब्दार्थकथनस्यानुपपत्तेः । एवं कृतप्रायश्चित्तस्य दुःखानुत्पत्या प्रायश्चित्तोत्तरं दुःखप्रागभावसत्वे मानाभावेन तत्र प्रायश्चित्तफलत्वकथनस्यासंभव उक्तिकतापत्तेश्च । तस्मादुरितध्वंसस्य पुरुषार्थत्वमङ्गीकृत्य प्रायश्चित्तफलत्वकथनमावश्यकमिति दुरितध्वंसस्यापि पुरुषार्थत्वेन दुरितवन्दिन्नदुरितध्वंसस्य मुक्तित्वेनानुपपत्तिर्लेशोऽपीति पश्यामः । भ(भा)ट्टास्तु दुरितवद्भिन्नदुरितध्वंसत्वस्य मुक्तित्वे गौरवात्तदपेक्ष्य नित्यसुखविषयकसाक्षात्कारस्यैव मुक्तित्वौचित्यात्यम्) ।
अत एव तदनुयायिभिनित्यसुखाभिव्यक्तिरिति लक्षणमङ्गीक्रियते । अभिव्यक्तिपदस्य साक्षात्कारार्थकतया तथाविधलक्षणवाक्यस्य नित्यसुखविषयकसाक्षात्कारार्थ तैव पर्यवसन्नेति । अथ तन्मते कीदृशनित्यसुखविषयकसाक्षात्कारो नित्यसुखविषयकसाक्षात्कारशब्देन व्यवहीयते । ईश्वरीयनित्यसुखविषयकसाक्षात्कारो जीवीयनित्यसुखसाक्षात्कारो वा । नाद्यः । तन्मते ईश्वराभावे न सुतरां तदीयनित्यसुखस्यासंभवतया तथोक्त्यसंभवात् । नान्त्यः । जीवस्य नित्यसुखे प्रमाणाभावात् । न च "आनंदं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम् इति श्रुत्या नित्यसुखसाक्षात्कारत्वस्य मुक्तित्वे सिद्धे तदन्यथानुपपत्या नित्यसुखं जीवे कल्पनीयमिति वाच्यम् । तादृशश्रुतेस्तथाविधार्थप्रतिपादनेन तथाकल्पनानुपपत्तेः । तथा हि तादृशश्रुतिघटकीभूतानन्दपदस्यानन्दाश्रये लक्षणाऽवश्यकी । अन्यथा सुखवाचकानन्दपदस्य पुल्लिङ्गतया नपुंसकतानुपपत्तेः । न च सुखवाचकानन्दपदस्य पुल्लिङ्गत्वे मानाभाव इति वाच्यम् । '[स्याद] आनन्दथुर् आनन्दः शर्म-शांत सुखानि' (अमरकोशः , १.४.७) चेत् इत्यत्र आनन्दशब्दस्य पुल्लिङ्गेन निर्देशान्यथानुपपत्तेरेव मानत्वात् । एवं ब्रह्मणो रूपमित्यस्यापि ब्रह्मणः स्वरूपमित्यर्थः । तच्च बह्माभिन्नम् । 'मोक्षे प्रतिष्ठित'मित्यस्यापि मोक्षशब्दोत्तरनिमित्तसप्तमीप्रतिपादितमोक्षजनकत्वाश्रयप्रतिष्ठाविषयोऽर्थः । प्रतिष्ठा च ज्ञानम् । तथाचानन्दाश्रय आत्मा मोक्षजनकीभूतज्ञानविषय इत्यर्थस्योपदर्शितश्रुत्या प्रतिपादितत्वेन नित्यसुखसाक्षात्कारस्य तादृशश्रुतिप्रतिपादितत्वसंभव इति । न च श्रुतौ लिङ्गव्यत्यासेनान्दपदस्य सुखमेवार्थः । ब्रह्मणो रूपमित्यस्य ब्रह्मणो धर्म इत्यर्थः । 'मोक्षे
For Private and Personal Use Only
Loading... Page Navigation 1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131