Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar

View full book text
Previous | Next

Page 268
________________ ૨૬૮ ५ ६ ८ ९ ११ १२ १३ १४ સ્તુતિસંગ્રહ સૂક્ત - રત્ન - મંજૂષા " शरण्य ! कारुण्यपरः परेषां निहंसि मोहज्वरमाश्रितानाम् । मम त्वदाज्ञां वहतोऽपि मूर्ध्ना, शान्तिं न यात्येष कुतोऽपि हेतोः ॥७४॥ भवाटवीलङ्घनसार्थवाहं, त्वामाश्रितो मुक्तिमहं यियासुः । कषायचीरेजिन । लुण्ट्यमानं रत्नत्रयं मे तदुपेक्षसे किम् ? ॥ ७५ ॥ लब्धोऽसि स त्वं मयका महात्मा, भवाम्बुधौ बम्भ्रमता कथञ्चित् । आः ! पापपिण्डेन नतो न भक्त्या, न पूजितो नाथ ! न तु स्तुतोऽसि ॥७६॥ " संसारचक्रे भ्रमयन् कुबोध - दण्डेन मां कर्ममहाकुलालः । करोति दुःखप्रचयस्थभाण्डं, ततः प्रभो ! रक्ष जगच्छरण्य ! ॥७७॥ कदा त्वदाज्ञाकरणाप्ततत्त्वः, त्यक्त्वा ममत्वादि भवैककन्दम् । आत्मकसारो निरपेक्षवृत्तिः, मोक्षेऽप्यनिच्छो भविताऽस्मि नाथ ! ? ॥७८॥ एतावतीं भूमिमहं त्वदङ्घ्रि- पद्मप्रसादाद् गतवान् अधीश ! हटेन पापास्तदपि स्मराद्या, ही! मामकार्येषु नियोजयन्ति ॥ ७९ ॥ " भद्रं न किं त्वय्यपि नाथ ! नाथे, सम्भाव्यते मे यदपि स्मराद्या: ? । अपाक्रियन्ते शुभभावनाभिः, पृष्ठिं न मुञ्चन्ति तथाऽपि पापाः ॥८०॥ भवाम्बुराशौ भ्रमतः कदाऽपि मन्ये न मे लोचनगोचरोऽभूः । निस्सीमसीमन्तकनारकादिदुःखातिधित्वं कथमन्यधेश ! ? ॥८१॥ चक्रासिचापाङ्कुशवज्रमुख्यैः, सल्लक्षणलक्षितमग्रियुग्मम् । नाथ ! त्वदीयं शरणं गतोऽस्मि, दुर्वारमोहादिविपक्षभीतः ॥८२॥

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303