Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar
View full book text
________________
દેહાત્મભેદપ્રકરણ/ હદયપ્રદીપપબિંશિકા
૨૮૯
१५ मूलं संसारदुःखस्य, देह एवात्मधीस्ततः ।
त्यक्त्वनां प्रविशेदन्तः, बहिरव्याप्तेन्द्रियः ॥७६॥ ३३ यो न वेत्ति परं देहाद्, एवमात्मानमव्ययम् ।
लभते न स निर्वाणं, तत्त्वाऽपि परमं तपः ॥७७॥ जीर्णे वस्त्रे यथाऽऽत्मानं, न जीर्णं मन्यते तथा । जीर्णे स्वदेहेऽप्यात्मानं, न जीर्णं मन्यते बुधः ॥७८॥ नष्टे वस्त्रे यथाऽऽत्मानं, न नष्टं मन्यते तथा ।
नष्टे स्वदेहेऽप्यात्मानं, न नष्टं मन्यते बुधः ॥७९॥ ७४ देहान्तरगते/जं, देहेऽस्मिन्नात्मभावना ।
बीजं विदेहनिष्पत्तेः, आत्मन्येवात्मभावना ॥८॥ ७७ आत्मन्येवात्मधीरन्यां, शरीरगतिमात्मनः । मन्यते निर्भयं त्यक्त्वा, वस्त्रं वस्त्रान्तरग्रहम् ॥८१॥
- हृदयप्रदीपषट्त्रिंशिका ~~ सम्यग् विरक्तिर्ननु यस्य चित्ते, सम्यग् गुरुर्यस्य च तत्त्ववेत्ता । सदाऽनुभूत्या दृढनिश्चयो यः, तस्यैव सिद्धिर्न हि चापरस्य ॥८२॥ विग्रहं कृमिनिकायसङ्कलं, दुःखदं हृदि विवेचयन्ति ये । गुप्तिबद्धमिव चेतनं हि ते, मोचयन्ति तनुयन्त्रयन्त्रितम् ॥८३॥ भोगार्थमेतद् भविनां शरीरं, ज्ञानार्थमेतत् किल योगिनां वै । जाता विषं चेद् विषया हि सम्यग्ज्ञानात् ततः किं कुणपस्य पुष्ट्या ? ॥८४॥

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303