Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar

View full book text
Previous | Next

Page 291
________________ હ્રદયપ્રદીપષત્રિંશિકા १४ १५ १६ १७ 338 १९ २० २२ यदर्जितं वै वयसाऽखिलेन, ध्यानं तपो ज्ञानमुखं च सत्यम् । क्षणेन सर्वं प्रदहत्यहो ! तत्, कामो बली प्राप्य छलं यतीनाम् ॥९३॥ ૨૯૧ बलादसौ मोहरिपुर्जनानां ज्ञानं विवेकं च निराकरोति । मोहाभिभूतं हि जगद्विनष्टं, तत्त्वावबोधादपयाति मोहः ॥ ९४ ॥ सर्वत्र सर्वस्य सदा प्रवृत्तिः, दुःखस्य नाशाय सुखस्य हेतोः । तथाऽपि दुःखं न विनाशमेति, सुखं न कस्यापि भजेत् स्थिरत्वम् ॥९५॥ यत् कृत्रिमं वैषयिकादिसौख्यम्, भ्रमन् भवे को न लभेत मर्त्यः ? । सर्वेषु तच्चाधममध्यमेषु, यद् दृश्यते तत्र किमद्भुतं च ? ॥९६॥ गृहीतलिङ्गस्य च चेद् धनाशा, गृहीतलिङ्गी विषयाभिलाषी । गृहीतलिङ्गो रसलोलुपश्चेद्, विडम्बनं नास्ति ततोऽधिकं हि ॥९७॥ ये लुब्धचित्ता विषयार्थभोगे, बहिर्विरागा हृदि बद्धरागाः । दाम्भिका वेषधराश्च धूर्ता:, मनांसि लोकस्य तु रञ्जयन्ति ॥ ९८ ॥ ये निःस्पृहास्त्यक्तसमस्तरागाः, तत्त्वैकनिष्ठा गलिताभिमानाः । सन्तोषपोषैकविलीनवाञ्छाः, ते रञ्जयन्ति स्वमनो न लोकम् ॥९९॥

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303