Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar
View full book text
________________
યોગસાર
५/३७ पापं कृत्वा स्वतो भिन्नं कुटुम्बं पोषितं त्वया । दुःखं सहिष्यते स्वेन, भ्रान्तोऽसि हा ! महाऽन्तरे ॥ ५४ ॥ ५/१० औचित्यं ये विजानन्ति सर्वकार्येषु सिद्धिदम् । सर्वप्रियङ्करा ये च ते नरा विरला जने ॥५५॥ ५/११ औचित्यं परमो बन्धुः औचित्यं परमं सुखम् । धर्मादिमूलमौचित्यं, औचित्यं जनमान्यता ॥ ५६ ॥
५/१२ कर्मबन्धलेषं सर्वस्याप्रीतिकं सदा ।
"
धर्मार्थिना न कर्तव्यं, वीरेण जटिनि यथा ॥५७॥ ५/८ मुनिना मसृणं शान्तं प्राञ्जलं मधुरं मृदु ।
वदता तापलेशोऽपि, त्याज्यः स्वस्य परस्य च ॥ ५८ ॥ ४/५ कषायविषयग्रामे, धावन्तमतिदुर्जयम् ।
यः स्वमेव जयत्येकं स वीरतिलकः कुतः ॥५९॥ ४/६ धीराणामपि वैधुर्य-करै रौद्रपरीयहः ।
स्पृष्टः सन् कोऽपि वीरेन्द्रः, संमुखो यदि धावति ॥६०॥ ४/७ उपसर्गे सुधीरत्वं सुभीरुत्वमसंयमे ।
लोकातिगं द्वयमिदं मुनेः स्याद् यदि कस्यचित् ॥ ६१ ॥ ४/९ जगत्त्रयैकमल्लश्च कामः केन विजीयते ? |
"
1
૨૮૭
मुनिवीरं विना कञ्चित्, चित्तनिग्रहकारिणम् ॥६२॥ ५/२३ सुकुमारसुरूपेण, शालिभद्रेण भोगिना ।
तथा तप्तं तपो ध्यायन्, न भवेत् कस्तपोरत: ? ॥६३॥ ४ / ३१ ये सिद्धा ये च सेत्स्यन्ति सर्वे सत्त्वे प्रतिष्ठिताः । सत्त्वं विना हि सिद्धिर्न, प्रोक्ता कुत्रापि शासने ॥६४॥

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303