________________
૨૬૮
५
६
८
९
११
१२
१३
१४
સ્તુતિસંગ્રહ સૂક્ત - રત્ન - મંજૂષા
"
शरण्य ! कारुण्यपरः परेषां निहंसि मोहज्वरमाश्रितानाम् । मम त्वदाज्ञां वहतोऽपि मूर्ध्ना, शान्तिं न यात्येष कुतोऽपि हेतोः ॥७४॥ भवाटवीलङ्घनसार्थवाहं, त्वामाश्रितो मुक्तिमहं यियासुः । कषायचीरेजिन । लुण्ट्यमानं रत्नत्रयं मे तदुपेक्षसे किम् ? ॥ ७५ ॥ लब्धोऽसि स त्वं मयका महात्मा, भवाम्बुधौ बम्भ्रमता कथञ्चित् ।
आः ! पापपिण्डेन नतो न भक्त्या,
न पूजितो नाथ ! न तु स्तुतोऽसि ॥७६॥
"
संसारचक्रे भ्रमयन् कुबोध - दण्डेन मां कर्ममहाकुलालः । करोति दुःखप्रचयस्थभाण्डं, ततः प्रभो ! रक्ष जगच्छरण्य ! ॥७७॥
कदा त्वदाज्ञाकरणाप्ततत्त्वः,
त्यक्त्वा ममत्वादि भवैककन्दम् ।
आत्मकसारो निरपेक्षवृत्तिः,
मोक्षेऽप्यनिच्छो भविताऽस्मि नाथ ! ? ॥७८॥
एतावतीं भूमिमहं त्वदङ्घ्रि- पद्मप्रसादाद् गतवान् अधीश ! हटेन पापास्तदपि स्मराद्या, ही! मामकार्येषु नियोजयन्ति ॥ ७९ ॥
"
भद्रं न किं त्वय्यपि नाथ ! नाथे, सम्भाव्यते मे यदपि स्मराद्या: ? । अपाक्रियन्ते शुभभावनाभिः, पृष्ठिं न मुञ्चन्ति तथाऽपि पापाः ॥८०॥ भवाम्बुराशौ भ्रमतः कदाऽपि मन्ये न मे लोचनगोचरोऽभूः । निस्सीमसीमन्तकनारकादिदुःखातिधित्वं कथमन्यधेश ! ? ॥८१॥ चक्रासिचापाङ्कुशवज्रमुख्यैः, सल्लक्षणलक्षितमग्रियुग्मम् । नाथ ! त्वदीयं शरणं गतोऽस्मि, दुर्वारमोहादिविपक्षभीतः ॥८२॥