________________
રત્નાકરપચ્ચીશી | આત્મનિંદાદ્વાત્રિંશિકા
१९
२०
२१
२२
२३
२४
२५
४
૨૬૭
चक्रे मयाऽसत्यपि कामधेनु कल्पदुचिन्तामणिषु स्पृहातिः । न जैनधर्मे स्फुटशर्मदेऽपि, जिनेश ! मे पश्य विमूढभावम् ॥६६॥ सद्भोगलीला न च रोगकीला, धनागमो नो निधनागमश्च । दारा नकारा नरकस्य चित्ते, व्यचिन्ति नित्यं मयकाऽधमेन ॥६७॥ स्थितं न साधोर्हृदि साधुवृत्तात्, परोपकारान्न यशोऽर्ज्जितं च । कृतं न तीर्थोद्धरणादिकृत्यं मया मुधा हारितमेव जन्म ॥ ६८ ॥
"
वैराग्यरो न गुरुदितेषु,
न दुर्जनानां वचनेषु शान्तिः ।
नाध्यात्मलेशो मम कोऽपि देव !,
तार्यः कथङ्कारमयं भवाब्धि: ? ॥६९॥
पूर्वे भवेऽकारि मया न पुण्यम्, आगामिजन्मन्यपि नो करिष्ये ।
यदीदृशोऽहं मम तेन नष्टा भूतोद्धवद्धाविभवत्रयीश ! ॥ ७० ॥
"
कि वा मुधाऽहं बहुधा सुधाभुक् पूज्य त्वदग्रे चरितं स्वकीयम् । जल्पामि यस्मात् त्रिजगत्स्वरूप-निरूपकस्त्वं किवदेतदत्र ? ॥७९॥ दीनोद्धारधुरन्धरस्त्वदपरो नास्ते मदन्यः कृपापात्रं नात्र जने जिनेश्वर । तथाऽप्येतां न याचे श्रियम् । किन्त्वर्हन्निदमेव केवलमहो ! सद्बोधिरत्नं शिवं, श्रीरत्नाकर ! मङ्गलैकनिलय ! श्रेयस्करं प्रार्थये ॥ ७२ ॥
कुमारपाल भूपालविरचिता आत्मनिन्दाद्वात्रिंशिका
तव स्तवेन क्षयमङ्गभाजां भजन्ति जन्मार्जितपातकानि । कियच्चिरं चण्डरुचेर्मरीचि स्तोमे तमांसि स्थितिमुद्रहन्ति ? ॥७३॥