________________
આત્મનિંદાદ્વાગિશિકા
૨૬૯
१७
१५ अगण्यकारुण्य ! शरण्य ! पुण्य !
सर्वज्ञ ! निष्कण्टक ! विश्वनाथ ! । दीनं हताशं शरणागतं च, मां रक्ष रक्ष स्मरभिल्लमल्लैः ॥४३॥ त्वया विना दुष्कृतचक्रवालं, नान्यः क्षयं नेतुमलं ममेश !। किं वा विपक्षप्रतिचक्रमूलं, चक्रं विना छेत्तुमलम्भविष्णुः ? ॥८४॥ यद्देवदेवोऽसि महेश्वरोऽसि, बुद्धोऽसि विश्वत्रयनायकोऽसि ।
तेनान्तरङ्गारिगणाभिभूतः, तवाग्रतो रोदिमि हा ! सखेदम् ॥८५॥ १८ स्वामिन्नधर्मव्यसनानि हित्वा, मनः समाधौ निदधामि यावत् ।
तावत् क्रुधेवान्तरवैरिणो माम्, अनल्पमोहान्ध्यवशं नयन्ति ॥८६॥ १९ त्वदागमाद्वेद्मि सदैव देव !, मोहादयो यन्मम वैरिणोऽमी ।
तथाऽपि मूढस्य पराप्तबुद्ध्या, तत्सन्निधौ ही न किमप्यकृत्यम् ॥८७॥ म्लेच्छर्नुशंसैरतिराक्षसैश्च, विडम्बितोऽमीभिरनेकशोऽहम् । प्राप्तस्त्विदानी भुवनैकवीर !, त्रायस्व मां यत्तव पादलीनम् ॥४८॥ हित्वा स्वदेहेऽपि ममत्वबुद्धि, श्रद्धापवित्रीकृतसद्विवेकः ।
मुक्तान्यसङ्गः समशत्रुमित्रः, स्वामिन् ! कदा संयममातनिष्ये ? ॥८९॥ २२ त्वमेव देवो मम वीतराग !, धर्मो भवदर्शितधर्म एव ।
इति स्वरूपं परिभाव्य तस्माद्, नोपेक्षणीयो भवता स्वभृत्यः ॥१०॥ २३ जिता जिताशेषसुराऽसुराद्याः, कामादयः कामममी त्वयेश !।
त्वां प्रत्यशक्तास्तव सेवकं तु, निघ्नन्ति ही मां परुषं रुषेव ॥११॥