________________
२90
સ્તુતિસંગ્રહ સૂક્ત - રત્ન - મંજૂષા
२४ सामर्थ्यमेतद्भवतोऽस्ति सिद्धि,
सत्त्वानशेषानपि नेतुमीश ! । क्रियाविहीनं भवदछिलीनं, दीनं न किं रक्षसि मां शरण्य !? ॥१२॥ त्वत्पादपद्मद्वितयं जिनेन्द्र !, स्फुरत्यजस्रं हृदि यस्य पुंसः । विश्वत्रयीश्रीरपि नूनमेति, तत्राश्रयार्थं सहचारिणीव ॥१३॥ अहं प्रभो ! निर्गुणचक्रवर्ती, क्रूरो दुरात्मा हतकः सपाप्मा । ही दुःखराशौ भववारिराशौ, यस्मान्निमग्नोऽस्मि भवद्विमुक्तः ॥१४॥ स्वामिनिमग्नोऽस्मि सुधासमुद्रे, यन्नेत्रपात्रातिथिरद्य मेऽभूः । चिन्तामणौ स्फूर्जति पाणिपये, पुंसामसाध्यो न हि कश्चिदर्थः ॥१५॥ त्वमेव संसारमहाम्बुराशौ, निमज्जतो मे जिन ! यानपात्रम् । त्वमेव मे श्रेष्ठसुखैकधाम, विमुक्तिरामाघटनाऽभिरामः ॥१६॥ चिन्तामणिस्तस्य जिनेश ! पाणी, कल्पद्रुमस्तस्य गृहाङ्गणस्थः । नमस्कृतो येन सदाऽपि भक्त्या,
स्तोत्रैः स्तुतो दामभिरचितोऽसि ॥१७॥ ३२ भवजलनिधिमध्यान्नाथ ! निस्तार्य कार्यः,
शिवनगरकुटुम्बी निर्गुणोऽपि त्वयाऽहम् । न हि गुणमगुणं वा संश्रितानां महान्तो, निरुपमकरुणार्द्राः सर्वथा चिन्तयन्ति ॥१८॥ प्राप्तस्त्वं बहुभिः शुभैस्त्रिजगतश्चूडामणिर्देवता, निर्वाणप्रतिभुरसावपि गुरुः श्रीहेमचन्द्रप्रभुः । तन्नातः परमस्ति वस्तु किमपि स्वामिन् ! यदभ्यर्थये, किन्तु त्वद्वचनादरः प्रतिभवं स्ताद् वर्द्धमानो मम ॥१९॥