Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar

View full book text
Previous | Next

Page 278
________________ ૨૭૮ યોગશાસ્ત્ર સૂક્ત- રત્ન - મંજૂષા विलेन ४/११ क्रोधवतेस्तदह्नाय, शमनाय शुभात्मभिः । श्रयणीया क्षमैकैव, संयमारामसारणिः ॥६६॥ ४/१२ विनयश्रुतशीलानां, त्रिवर्गस्य च घातकः । विवेकलोचनं लुम्पन्, मानोऽन्धङ्करणो नृणाम् ॥६७॥ ४/१३ जातिलाभकुलैश्वर्यबलरूपतपःश्रुतैः ।। कुर्वन् मदं पुनस्तानि, हीनानि लभते जनः ॥६८॥ ४/१४ उत्सर्पयन् दोषशाखा, गुणमूलान्यधो नयन् । उन्मूलनीयो मानदुः, तन्मार्दवसरित्प्लवैः ॥६९॥ ४/१५ असूनृतस्य जननी, परशुः शीलशाखिनः । जन्मभूमिरविद्यानां, माया दुर्गतिकारणम् ॥७०॥ ४/१७ तदार्जवमहौषध्या, जगदानन्दहेतुना । जयेज्जगद्बोहकरी, मायां विषधरीमिव ॥७१॥ ४/१८ आकरः सर्वदोषाणां, गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां, लोभः सर्वार्थबाधकः ॥७२॥ ४/२२ लोभसागरमुढेलम्, अतिवेलं महामतिः । सन्तोषसेतुबन्धेन, प्रसरन्तं निवारयेत् ॥७३॥ ४/२४ विनेन्द्रियजयं नैव, कषायाञ्जेतुमीश्वरः । हन्यते हैमनं जाड्यं, न विना ज्वलितानलम् ॥७४।। ४/२५ अदान्तैरिन्द्रियहयैः, चलैरपथगामिभिः । आकृष्य नरकारण्ये, जन्तुः सपदि नीयते ॥७५॥ ४/२८ वशास्पर्शसुखास्वाद-प्रसारितकरः करी । आलानबन्धनक्लेशम्, आसादयति तत्क्षणात् ॥७६॥

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303