Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar
View full book text
________________
૨૮૧
યોગશાસ્ત્ર સૂક્ત- રત્ન- મંજૂષા ४/७३ नवस्रोतःस्रवद्विस्त्र-रसनिःस्यन्दपिच्छिले ।
देहेऽपि शौचसङ्कल्पो, महन्मोहविजृम्भितम् ॥१९॥ ४/८८ सदोषमपि दीप्तेन, सुवर्णं वह्निना यथा ।
तपोऽग्निना तप्यमानः, तथा जीवो विशुध्यति ॥१०॥ ४/९४ धर्मप्रभावतः कल्प-द्रुमाद्या ददतीप्सितम् ।
___ गोचरेऽपि न ते यत्स्युः, अधर्माधिष्ठितात्मनाम् ॥१०१॥ ४/९५ अपारे व्यसनाम्भोधौ, पतन्तं पाति देहिनम् ।
सदा सविधवबैक-बन्धुर्धर्मोऽतिवत्सलः ॥१०२॥ ४/१०० अबन्धूनामसौ बन्धुः, असखीनामसौ सखा ।
अनाथानामसौ नाथो, धर्मो विश्वैकवत्सलः ॥१०३॥ ४/१०१रक्षोयक्षोरगव्याघ्र-व्यालानलगरादयः ।
नापकर्तुमलं तेषां, यैर्धर्मः शरणं श्रितः ॥१०४॥ ४/११८ मा कार्षीत् कोऽपि पापानि, मा च भूत् कोऽपि दुःखितः ।
मुच्यतां जगदप्येषा, मतिमैत्री निगद्यते ॥१०५॥ ४/११९ अपास्ताशेषदोषाणां, वस्तुतत्त्वावलोकिनाम् ।
गुणेषु पक्षपातो यः, स प्रमोदः प्रकीर्तितः ॥१०६॥ ४/१२० दीनेष्वार्तेषु भीतेषु, याचमानेषु जीवितम् ।
प्रतीकारपरा बुद्धिः, कारुण्यमभिधीयते ॥१०७॥ ४/१२१ क्रूरकर्मसु निःशङ्क, देवतागुरुनिन्दिषु ।
आत्मशंसिषु योपेक्षा, तन्माध्यस्थ्यमुदीरितम् ॥१०८॥

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303