Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar
View full book text
________________
૨૩૬
યોગશાસ્ત્ર સૂક્ત - રત્ન - મંજૂષા
२ / ५२ दीर्घमायुः परं रूपम्, आरोग्यं भ्लाघनीयता । अहिंसायाः फलं सर्वं किमन्यत् कामदेव सा ॥४४॥ २/५३ मन्मनत्वं काहलत्वं, मूकत्वं मुखरोगिताम् ।
"
वीक्ष्यासत्यफलं कन्यालीकाद्यसत्यमुत्सृजेत् ॥४५॥ २/५५ सर्वलोकविरुद्धं यद्, यद् विश्वसितघातकम् ।
यद् विपक्षश्च पुण्यस्य न वदेत्तदसूनुत्तम् ॥ ४६ ॥ २ / ५६ असत्यतो लाघीयस्त्वम् असत्याद् वचनीयता । अधोगतिरसत्याच्च तदसत्यं परित्यजेत् ॥४७॥
"
२ / ५९ निगोदेष्वथ तिर्यक्षु, तथा नरकवासिषु । उत्पद्यन्ते मृषावाद - प्रसादेन शरीरिणः ॥४८॥ २/६० याद् भियोपरोधाद् वा नासत्यं कालिकार्यवत् । वस्तु ब्रूते स नरकं प्रवाति वसुराजवत् ॥४९॥ २ / ६१ न सत्यमपि भाषेत, परपीडाकरं वचः ।
लोकेऽपि श्रूयते यस्मात् कौशिको नरकं गतः ॥५०॥
२ / ६४ अलीकं ये न भाषन्ते, सत्यव्रतमहाधनाः । नापराद्धुमलं तेभ्यो, भूतप्रेतोरगादयः ॥५१॥ २ / ६५ दौर्भाग्यं प्रेष्यतां दास्यम्, अङ्गच्छेदं दरिद्रताम् । अदत्तात्तफलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् ॥५२॥ २/ ७३ दूरे परस्य सर्वस्वम्, अपहर्तुमुपक्रमः ।
उपाददीत नादत्तं, तृणमात्रमपि क्वचित् ॥ ५३ ॥ २ / ७७ रम्यमापातमात्रे यत्, परिणामेऽतिदारुणम् ।
किम्पाकफलसङ्काशं तत् कः सेवेत मैथुनम् ? ॥५४॥
"

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303