Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar

View full book text
Previous | Next

Page 275
________________ યોગશાસ્ત્ર સૂક્ત- રત્ન- મંજૂષા ૨૫ १/४१ विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । आत्मारामं मनः तज्जैः, मनोगुप्तिरुदाहृता ॥३३॥ १/४२ संज्ञादिपरिहारेण, यन्मौनस्यावलम्बनम् । वाग्वृत्तेः संवृत्तिर्वा या, सा वाग्गुप्तिरिहोच्यते ॥३४॥ १/४३ उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते ॥३५॥ १/४४ शयनासननिक्षेपादानचङ्क्रमणेषु यः । स्थानेषु चेष्टानियमः, कायगुप्तिस्तु साऽपरा ॥३६॥ १/४५ एताश्चारित्रगात्रस्य, जननात् परिपालनात् । संशोधनाच्च साधूनां, मातरोऽष्टौ प्रकीर्तिताः ॥३७॥ २/१५ शमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वमुपलक्ष्यते ॥३८॥ २/१६ स्थैर्य प्रभावना भक्तिः, कौशलं जिनशासने । तीर्थसेवा च पञ्चास्य, भूषणानि प्रचक्षते ॥३९॥ २/१७ शङ्का काझा विचिकित्सा, मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवश्च पञ्चापि, सम्यक्त्वं दूषयन्त्यलम् ॥४०॥ २/२० आत्मवत् सर्वभूतेषु, सुखदुःखे प्रियाप्रिये । चिन्तयन्नात्मनोऽनिष्टां, हिंसामन्यस्य नाचरेत् ॥४१॥ २/२७ श्रूयते प्राणिघातेन, रौद्रध्यानपरायणौ । सुभूमो ब्रह्मदत्तश्च, सप्तमं नरकं गतौ ॥४२॥ २/४८ यो भूतेष्वभयं दद्याद्, भूतेभ्यस्तस्य नो भयम् । यादृग् वितीर्यते दानं, तादृगासाद्यते फलम् ॥४३॥

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303