________________
યોગશાસ્ત્ર સૂક્ત- રત્ન- મંજૂષા
૨૫
१/४१ विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् ।
आत्मारामं मनः तज्जैः, मनोगुप्तिरुदाहृता ॥३३॥ १/४२ संज्ञादिपरिहारेण, यन्मौनस्यावलम्बनम् ।
वाग्वृत्तेः संवृत्तिर्वा या, सा वाग्गुप्तिरिहोच्यते ॥३४॥ १/४३ उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः ।
स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते ॥३५॥ १/४४ शयनासननिक्षेपादानचङ्क्रमणेषु यः ।
स्थानेषु चेष्टानियमः, कायगुप्तिस्तु साऽपरा ॥३६॥ १/४५ एताश्चारित्रगात्रस्य, जननात् परिपालनात् ।
संशोधनाच्च साधूनां, मातरोऽष्टौ प्रकीर्तिताः ॥३७॥ २/१५ शमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणैः ।
लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वमुपलक्ष्यते ॥३८॥ २/१६ स्थैर्य प्रभावना भक्तिः, कौशलं जिनशासने ।
तीर्थसेवा च पञ्चास्य, भूषणानि प्रचक्षते ॥३९॥ २/१७ शङ्का काझा विचिकित्सा, मिथ्यादृष्टिप्रशंसनम् ।
तत्संस्तवश्च पञ्चापि, सम्यक्त्वं दूषयन्त्यलम् ॥४०॥ २/२० आत्मवत् सर्वभूतेषु, सुखदुःखे प्रियाप्रिये ।
चिन्तयन्नात्मनोऽनिष्टां, हिंसामन्यस्य नाचरेत् ॥४१॥ २/२७ श्रूयते प्राणिघातेन, रौद्रध्यानपरायणौ ।
सुभूमो ब्रह्मदत्तश्च, सप्तमं नरकं गतौ ॥४२॥ २/४८ यो भूतेष्वभयं दद्याद्, भूतेभ्यस्तस्य नो भयम् ।
यादृग् वितीर्यते दानं, तादृगासाद्यते फलम् ॥४३॥