Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar

View full book text
Previous | Next

Page 272
________________ ૨૨ યોગશાસ્ત્ર સૂક્ત- રત્ન - મંજૂષા अ . યોગશાસ્ત્ર સૂક્ત - રત્ન - મંજૂષા कलिकालसर्वज्ञहेमचन्द्रसूरिकृतं योगशास्त्रं १/१ नमो दुर्वाररागादि-वैरिवारनिवारिणे । अर्हते योगिनाथाय, महावीराय तायिने ॥१॥ १/२ पन्नगे च सुरेन्द्रे च, कौशिके पादसंस्पृशि । निर्विशेषमनस्काय, श्रीवीरस्वामिने नमः ॥२॥ १/४ श्रुताम्भोधेरधिगम्य, सम्प्रदायाच्च सद्गुरोः । स्वसंवेदनतश्चापि, योगशास्त्रं विरच्यते ॥३॥ १/५ योगः सर्वविपद्वल्ली-विताने परशुः शितः । अमूलमन्त्रतन्त्रं च, कार्मणं निर्वृतिश्रियः ॥४॥ १/६ भूयांसोऽपि हि पाप्मानः, प्रलयं यान्ति योगतः । चण्डवाताद् घनघना, घनाघनघटा इव ॥५॥ १/७ क्षिणोति योगः पापानि, चिरकालाजितान्यपि । प्रचितानि यथैधांसि, क्षणादेवाशुशुक्षणिः ॥६॥ १/१० अहो ! योगस्य माहात्म्यं, प्राज्यं साम्राज्यमुद्वहन् । अवाप केवलज्ञानं, भरतो भरताधिपः ॥७॥ १/११ पूर्वमप्राप्तधर्माऽपि, परमानन्दनन्दिता । योगप्रभावतः प्राप, मरुदेवा परं पदम् ॥८॥ १/१२ ब्रह्मस्त्रीभ्रूणगोघात-पातकान्नरकातिथेः । दृढप्रहारिप्रभृतेः, योगो हस्तावलम्बनम् ॥९॥ १/१३ तत्कालकृतदुष्कर्म-कर्मठस्य दुरात्मनः । गोप्ने चिलातीपुत्रस्य, योगाय स्पृहयेन्न कः ? ॥१०॥

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303