________________
૨૨
યોગશાસ્ત્ર સૂક્ત- રત્ન - મંજૂષા
अ
.
યોગશાસ્ત્ર સૂક્ત - રત્ન - મંજૂષા
कलिकालसर्वज्ञहेमचन्द्रसूरिकृतं योगशास्त्रं १/१ नमो दुर्वाररागादि-वैरिवारनिवारिणे ।
अर्हते योगिनाथाय, महावीराय तायिने ॥१॥ १/२ पन्नगे च सुरेन्द्रे च, कौशिके पादसंस्पृशि ।
निर्विशेषमनस्काय, श्रीवीरस्वामिने नमः ॥२॥ १/४ श्रुताम्भोधेरधिगम्य, सम्प्रदायाच्च सद्गुरोः ।
स्वसंवेदनतश्चापि, योगशास्त्रं विरच्यते ॥३॥ १/५ योगः सर्वविपद्वल्ली-विताने परशुः शितः ।
अमूलमन्त्रतन्त्रं च, कार्मणं निर्वृतिश्रियः ॥४॥ १/६ भूयांसोऽपि हि पाप्मानः, प्रलयं यान्ति योगतः ।
चण्डवाताद् घनघना, घनाघनघटा इव ॥५॥ १/७ क्षिणोति योगः पापानि, चिरकालाजितान्यपि ।
प्रचितानि यथैधांसि, क्षणादेवाशुशुक्षणिः ॥६॥ १/१० अहो ! योगस्य माहात्म्यं, प्राज्यं साम्राज्यमुद्वहन् ।
अवाप केवलज्ञानं, भरतो भरताधिपः ॥७॥ १/११ पूर्वमप्राप्तधर्माऽपि, परमानन्दनन्दिता ।
योगप्रभावतः प्राप, मरुदेवा परं पदम् ॥८॥ १/१२ ब्रह्मस्त्रीभ्रूणगोघात-पातकान्नरकातिथेः ।
दृढप्रहारिप्रभृतेः, योगो हस्तावलम्बनम् ॥९॥ १/१३ तत्कालकृतदुष्कर्म-कर्मठस्य दुरात्मनः ।
गोप्ने चिलातीपुत्रस्य, योगाय स्पृहयेन्न कः ? ॥१०॥