________________
યોગશાસ્ત્ર સૂક્ત- રત્ન- મંજૂષા
२93
चार
१/१५ चतुर्वर्गेऽग्रणीर्मोक्षो, योगस्तस्य च कारणम् ।
ज्ञानश्रद्धानचारित्र-रूपं रत्नत्रयं च सः ॥११॥ १/१६ यथावस्थितत्त्वानां, संक्षेपाद् विस्तरेण वा ।
योऽवबोधस्तमत्राहुः, सम्यग्ज्ञानं मनीषिणः ॥१२॥ १/१७ रुचिर्जिनोक्ततत्त्वेषु, सम्यक्श्रद्धानमुच्यते ।
जायते तन्निसर्गेण, गुरोरधिगमेन वा ॥१३॥ १/१८ सर्वसावधयोगाना, त्यागश्चारित्रमिष्यते ।
कीर्तितं तदहिंसादि-व्रतभेदेन पञ्चधा ॥१४॥ १/२० न यत् प्रमादयोगेन, जीवितव्यपरोपणम् ।
त्रसानां स्थावराणां च, तदहिंसाव्रतं मतम् ॥१५॥ १/२१ प्रियं पथ्यं वचस्तथ्यं, सूनृतव्रतमुच्यते ।।
तत्तथ्यमपि नो तथ्यम्, अप्रियं चाहितं च यत् ॥१६॥ १/२२ अनादानमदत्तस्यास्तेयव्रतमुदीरितम् ।
बाह्याः प्राणा नृणामों, हरता तं हता हि ते ॥१७॥ १/२३ दिव्यौदारिककामानां, कृतानुमतिकारितैः ।
मनोवाक्कायतस्त्यागो, ब्रह्माष्टादशधा मतम् ॥१८॥ १/२४ सर्वभावेषु मूर्छायाः, त्यागः स्यादपरिग्रहः ।
यदसत्स्वपि जायेत, मूर्च्छया चित्तविप्लवः ॥१९॥ १/२६ मनोगुप्त्येषणाऽऽदानेर्याभिः समितिभिः सदा ।
दृष्टान्नपानग्रहणेनाहिंसां भावयेत् सुधीः ॥२०॥ १/२७ हास्यलोभभयक्रोध-प्रत्याख्यानै निरन्तरम् ।
आलोच्य भाषणेनापि, भावयेत् सूनृतव्रतम् ॥२१॥