Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 208 शोभनस्तुति-वृत्तिमाला सदानवसुराजिता असमराजिनाभीरदाः क्रियासुरुचितासु ते सकलभा रतीरायताः // 2 // 50 // - पृथ्वी ज० वि०-सदानवेति / भो भव्यात्मन् ! ते-तव ते जिनाः-तीर्थकराः क्रियासु-कर्तव्येषु आयतादीर्घा रतीः-मुदः क्रियासुः-विधेयासुः इति क्रियाकारकान्वयः / अत्र ‘क्रियासुः' इति क्रियापदम् / के कर्तारः ? 'जिनाः' / काः कर्मतापन्नाः ? ‘रतीः' / कस्य ? 'ते' / कासु ? 'क्रियासु' / रतीः कथंभूताः ? 'आयताः' / क्रियासु कथंभूतासु ? 'रुचितासु' अभिप्रेतासु / पुनः कथं० ? 'उचितासु' योग्यासु / जिनाः कथंभूताः ? 'सदानवसुराजिताः' दानवसहिता ये सुरा-देवाः तैः अजिता-उपसर्गादिभिः कृत्वा अक्षोभिताः / पुनः कथं० ? 'असमराः' समरः-संग्रामः तेन रहिताः / पुनः कथं० ? 'भीरदाः' भियंभयं रदन्ति-भिन्दन्तीति भीरदाः-भयच्छिदः / पुनः कथं० ? 'सकलभारतीराः' सकलाः-सदोषाः सांसारिककृत्यरूपा ये भारास्तेषां पर्यन्तत्वात् तीराः-तीरभूताः / अथवा अकारप्रश्लेषविधानेन असकलां-अदोषां भारती-सरस्वतीं ईरयन्ति रान्तीति वा ते तथा / पुनः कथं० ? यताः' यत्नं कुर्वाणाः / निगृहीतेन्द्रिया इत्यर्थः / पुनः कथं० ? / 'सदानवसुराजिताः' सदानं-दानसहितं यद् वसुद्रव्यं तेन राजिताःशोभिताः / इदं च विशेषणं गृहस्थावस्थामाश्रित्य ज्ञेयम् / पुनः कथं० ? 'असमराजिनाभीरदाः' असमं राजन्त इत्येवंशीला असमराजिनः, अथवा असमाश्च ते राजिनश्च असमराजिनः, एवंविधा नाभीरदानाभिदशना येषां ते तथा / पुनः कथं० / 'सकलभाः' सकला-सम्पूर्णा भा-दीप्तिर्येषां ते तथा / / अथ समासः-सह दानवैर्वर्तमाना इति सदानवाः 'तत्पुरुषः' / सदानवाश्च ते सुराश्च सदानव० 'कर्मधारयः' / न जिता अजिताः 'तत्पुरुषः' / सदानवसुरैरजिताः सदानव० 'तत्पुरुषः' / न विद्यते समरो येषां ते असमराः ‘बहुव्रीहिः' / भियं रदन्तीति भीरदाः 'तत्पुरुषः' / सह कलाभिर्वर्तमाना इति सकलाः 'तत्पुरुषः' / सकलाश्च ते भाराश्च सक० 'कर्मधारयः' / सकलभाराणां तीराः सक० 'तत्पुरुषः' / अथवा न सकला असकला 'तत्पुरुषः' / असकला चासौ भारती च असक० 'कर्मधारयः' / असकलभारतीमीरयन्ति रान्तीति वा असक० 'तत्पुरुषः' / सह दानेन वर्तते यत् तत् सदानं 'तत्पुरुषः' / सदानं च तद् वसु च सदा० 'कर्मधारयः' / सदानवसुभी राजिना सदान० 'तत्पुरुषः' | न समं असमं 'तत्पुरुषः' / असमं राजन्त इत्यसमराजिनः 'तत्पुरुषः' / यद्वा न समा असमाः 'तत्पुरुषः' / असमाश्च ते राजिनश्च असम० 'तत्पुरुषः' / नाभी च रदाश्च नाभीरदाः ‘इतरेतरद्वन्द्वः' / असमराजिनो नाभीरदा येषां ते असम० 'बहुव्रीहिः' / सकला भा येषां ते सकलभाः ‘बहुव्रीहिः' / / इति काव्यार्थः / / 50 / / 1. 'भारतीरायताः' इत्यपि पाठः /

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 234