Book Title: Sarvarthasiddhi
Author(s): Devnandi Maharaj, Fulchandra Jain Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
परिशिष्ट 2
एव पुनस्तेनैव सर्वजधन्यशरीराष्टलोक मध्यप्रदेशावगाहेन द्विरुत्पन्नो निरन्तरम् । अन्यत्रोत्पद्य वा तत्र वाधिक मवगाहेन वा उत्पद्यमानं न गणयित्वा तथा त्रिस्तथा चतुरिति एवं यावतो विस्तारोत्सेधावगाहत : समचतुरस्रोत्सेधांगुलस्यासंख्येयभाग प्रमिताकाश प्रदेशास्तावतो वारान् तत्रैवोत्पद्य पुनर्व्याप्तक्षेत्रापरि त्यांगेनाभिनव के प्रदेशादिकावगाहेनैव सर्वलोकव्याप्तिः । नन्वेवं लोकपरिमाणं तत् शरीरं स्यादिति चेत् न, पूर्वपूर्वव्याप्ताकाशप्रदेशपरित्यागेन व्याप्त्यभ्युपगमात् ।
तद्
§. 277
120.5 कालपरिवर्तनम् । प्रथमद्वितीयाद्य त्सर्पि गीनां क्रमेण प्रथमद्वितीयादिसमयेषूत्पद्यते यावद्दशसागरोपमकोटी कोटिपरिमाणोत्सर्पिणी परिसमाप्ता भवति । तथा तत्परिमाणावसर्पिणी च । एवं मरणनैरन्तर्यमपि ज्ञेयम् । क्रमातिक्रमेणोत्पन्नस्योत्पत्तिमरणे न परिगण्येते ।
§. 279
121.6 भावपरिवर्तनम् । ज्ञानावरणप्रकृतेराद्यत्वा तामधिकृत्योच्यते । पञ्चेन्द्रियादिविशेषेण विशिष्टो मिथ्यादृष्टिरेव कविधां सर्वजघन्यां स्थिति बघ्नातीति तस्य सा स्वयोग्येत्युच्यते । सागरोपमैककोट्या उपरिकोटी कोट्या मध्यमन्तः कोटीकोटीत्युच्यते । कषायाव्यवसायस्थानानि असंख्यात लोकमानावच्छिन्नानि षट्स्थानानि अनन्तभागवृद्ध्यसंख्यातभागवृद्धि-संख्यातभागवृद्धि - संख्यातगुणवृद्ध्यसंख्यातगुणवृद्ध्यनन्तगुणवृद्धिरूपाणि तेषु पतितानि तद्वृद्ध्य वृद्धि गतानि । अनेन तेषां न्यूनाधिकत्वं सूचितम् । तानीत्थंभूतानि कषायाध्यवसायस्थानानि तस्य मिथ्यादृष्टिजीवस्य तस्थिति बनतो योग्यानि भवन्ति । तेषां मध्ये सर्वजघन्यकषायाध्यवसायस्थान मुक्त स्थितियोग्यकषा याध्यवसायस्थानेभ्योऽतिशयेन मन्दकषायाध्यवसायस्थानं जघन्यत्वमुत्कृष्टं च स्वरूपं तेषां स्थितिकार्य प्रति सर्वेषां विशेषाभावात् । तथाविधां स्थिति कुर्वत्तदेव कषायाध्यवसायस्थानं कर्मणां फलदानसामर्थ्य लक्षणानुभवान्नाना करोतीति तन्निमित्तानीत्युच्यते । 'जोगा पयडिपदेसा द्विदिअणुभागा कसायदो
Jain Education International
[415
कुणदि' इत्यभिधानात् । अतस्तदेव जघन्यनानाशक्तिविशेषैर्युक्तमनुभवाध्यवसायस्थानान्यसंख्येय लोकप्रमितानि विदधते । सर्वजघन्यमेतत्त्रितयमेवमास्कन्दतः कर्तृत्वेन व्रजतस्तद्योग्यं तदनुकूलं सर्वजघन्ययोगस्थानं भवति । योगादीनां च अन्तर्मुहूर्तकालत्वाद्योगान्तरं कषायान्तरं च प्रतिपद्य कदाचित् कालविशेषे प्रथमसर्वजघन्ययोगस्थानात्तेषामेव सर्वजघन्यस्थित्यादीनां सम्बन्धि द्वितीयमसंख्येयभागवृद्धियुक्तं योगस्थानं भवति । एवं चतुःस्थानपतितानि । अनन्तभागानन्त गुणवृद्धिहीनेतरचतुःस्थानवृद्ध्या वृद्धि नीतानि तावद् भवन्ति यावच्छ्रे ण्यसंख्येयभाग प्रमितानि । एवं सर्वजघन्यानुभवाध्यवसायस्थाने श्रेण्यसंख्येयभागपरिमितेषु योगस्थानेषु सत्सु सर्वजघन्यस्थिति कषायाध्यवसायस्थानयुक्तस्यैव द्वितीयमनुभवाध्यवसायस्थानं भवति । तस्यापि योगस्थानानि
चतुःस्थानपतितानि । तानि श्रेण्यसंख्येभाग परिमितानि पूर्ववद् वेदितव्यानि । एवं तृतीयाद्यनुभवस्थानेषु आ असंख्येयलोकपरिसमाप्तेरयं क्रमो वेदितव्यः । एवं तामेव सर्वजघन्यां स्थितिमापद्यमानस्य द्वितीयं कषायाध्यवसायस्थानं भवति । तस्याप्यनुभवाध्यवसायस्थानानि असंख्यातलोकपरिमितानि प्रत्येकं चतु:स्थानपतितश्रेण्यसंख्येयभागपरिमितयोगस्थान युक्तानि पूर्ववद् वेदितव्यानि । उक्तसर्व जघन्य स्थिते र कैकसमयाधिकक्रमेण वृद्धिं गच्छन्त्यास्त्रि शत्सागरोपमकोटीकोटीपरिमितोत्कृष्टस्थितिः यावत् कषायानुभवयोगस्थानानि प्रत्येक मुदाहृतक्रमेण वेदितव्यानि ।
§. 284
संसारिणस्त्रस........।।12।।
124.5 अभ्यर्हितत्वात् पूज्यत्वात् ।
8. 285
124.7 विभज्यानुपूर्वी उल्लंध्यानुपूर्वी ।
§. 286
124.10 पृथिव्यादीनामार्षे चातुविध्यमुक्तम् । तथाहि
पुढवी पृढवीकाओ पुढवीकाया य पुढविजीवा य । साहारणोपमुक्को सरीरगहिदो भवंतरिदो ॥
For Private & Personal Use Only
-
www.jainelibrary.org
Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568