SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट 2 एव पुनस्तेनैव सर्वजधन्यशरीराष्टलोक मध्यप्रदेशावगाहेन द्विरुत्पन्नो निरन्तरम् । अन्यत्रोत्पद्य वा तत्र वाधिक मवगाहेन वा उत्पद्यमानं न गणयित्वा तथा त्रिस्तथा चतुरिति एवं यावतो विस्तारोत्सेधावगाहत : समचतुरस्रोत्सेधांगुलस्यासंख्येयभाग प्रमिताकाश प्रदेशास्तावतो वारान् तत्रैवोत्पद्य पुनर्व्याप्तक्षेत्रापरि त्यांगेनाभिनव के प्रदेशादिकावगाहेनैव सर्वलोकव्याप्तिः । नन्वेवं लोकपरिमाणं तत् शरीरं स्यादिति चेत् न, पूर्वपूर्वव्याप्ताकाशप्रदेशपरित्यागेन व्याप्त्यभ्युपगमात् । तद् §. 277 120.5 कालपरिवर्तनम् । प्रथमद्वितीयाद्य त्सर्पि गीनां क्रमेण प्रथमद्वितीयादिसमयेषूत्पद्यते यावद्दशसागरोपमकोटी कोटिपरिमाणोत्सर्पिणी परिसमाप्ता भवति । तथा तत्परिमाणावसर्पिणी च । एवं मरणनैरन्तर्यमपि ज्ञेयम् । क्रमातिक्रमेणोत्पन्नस्योत्पत्तिमरणे न परिगण्येते । §. 279 121.6 भावपरिवर्तनम् । ज्ञानावरणप्रकृतेराद्यत्वा तामधिकृत्योच्यते । पञ्चेन्द्रियादिविशेषेण विशिष्टो मिथ्यादृष्टिरेव कविधां सर्वजघन्यां स्थिति बघ्नातीति तस्य सा स्वयोग्येत्युच्यते । सागरोपमैककोट्या उपरिकोटी कोट्या मध्यमन्तः कोटीकोटीत्युच्यते । कषायाव्यवसायस्थानानि असंख्यात लोकमानावच्छिन्नानि षट्स्थानानि अनन्तभागवृद्ध्यसंख्यातभागवृद्धि-संख्यातभागवृद्धि - संख्यातगुणवृद्ध्यसंख्यातगुणवृद्ध्यनन्तगुणवृद्धिरूपाणि तेषु पतितानि तद्वृद्ध्य वृद्धि गतानि । अनेन तेषां न्यूनाधिकत्वं सूचितम् । तानीत्थंभूतानि कषायाध्यवसायस्थानानि तस्य मिथ्यादृष्टिजीवस्य तस्थिति बनतो योग्यानि भवन्ति । तेषां मध्ये सर्वजघन्यकषायाध्यवसायस्थान मुक्त स्थितियोग्यकषा याध्यवसायस्थानेभ्योऽतिशयेन मन्दकषायाध्यवसायस्थानं जघन्यत्वमुत्कृष्टं च स्वरूपं तेषां स्थितिकार्य प्रति सर्वेषां विशेषाभावात् । तथाविधां स्थिति कुर्वत्तदेव कषायाध्यवसायस्थानं कर्मणां फलदानसामर्थ्य लक्षणानुभवान्नाना करोतीति तन्निमित्तानीत्युच्यते । 'जोगा पयडिपदेसा द्विदिअणुभागा कसायदो Jain Education International [415 कुणदि' इत्यभिधानात् । अतस्तदेव जघन्यनानाशक्तिविशेषैर्युक्तमनुभवाध्यवसायस्थानान्यसंख्येय लोकप्रमितानि विदधते । सर्वजघन्यमेतत्त्रितयमेवमास्कन्दतः कर्तृत्वेन व्रजतस्तद्योग्यं तदनुकूलं सर्वजघन्ययोगस्थानं भवति । योगादीनां च अन्तर्मुहूर्तकालत्वाद्योगान्तरं कषायान्तरं च प्रतिपद्य कदाचित् कालविशेषे प्रथमसर्वजघन्ययोगस्थानात्तेषामेव सर्वजघन्यस्थित्यादीनां सम्बन्धि द्वितीयमसंख्येयभागवृद्धियुक्तं योगस्थानं भवति । एवं चतुःस्थानपतितानि । अनन्तभागानन्त गुणवृद्धिहीनेतरचतुःस्थानवृद्ध्या वृद्धि नीतानि तावद् भवन्ति यावच्छ्रे ण्यसंख्येयभाग प्रमितानि । एवं सर्वजघन्यानुभवाध्यवसायस्थाने श्रेण्यसंख्येयभागपरिमितेषु योगस्थानेषु सत्सु सर्वजघन्यस्थिति कषायाध्यवसायस्थानयुक्तस्यैव द्वितीयमनुभवाध्यवसायस्थानं भवति । तस्यापि योगस्थानानि चतुःस्थानपतितानि । तानि श्रेण्यसंख्येभाग परिमितानि पूर्ववद् वेदितव्यानि । एवं तृतीयाद्यनुभवस्थानेषु आ असंख्येयलोकपरिसमाप्तेरयं क्रमो वेदितव्यः । एवं तामेव सर्वजघन्यां स्थितिमापद्यमानस्य द्वितीयं कषायाध्यवसायस्थानं भवति । तस्याप्यनुभवाध्यवसायस्थानानि असंख्यातलोकपरिमितानि प्रत्येकं चतु:स्थानपतितश्रेण्यसंख्येयभागपरिमितयोगस्थान युक्तानि पूर्ववद् वेदितव्यानि । उक्तसर्व जघन्य स्थिते र कैकसमयाधिकक्रमेण वृद्धिं गच्छन्त्यास्त्रि शत्सागरोपमकोटीकोटीपरिमितोत्कृष्टस्थितिः यावत् कषायानुभवयोगस्थानानि प्रत्येक मुदाहृतक्रमेण वेदितव्यानि । §. 284 संसारिणस्त्रस........।।12।। 124.5 अभ्यर्हितत्वात् पूज्यत्वात् । 8. 285 124.7 विभज्यानुपूर्वी उल्लंध्यानुपूर्वी । §. 286 124.10 पृथिव्यादीनामार्षे चातुविध्यमुक्तम् । तथाहि पुढवी पृढवीकाओ पुढवीकाया य पुढविजीवा य । साहारणोपमुक्को सरीरगहिदो भवंतरिदो ॥ For Private & Personal Use Only - www.jainelibrary.org
SR No.001443
Book TitleSarvarthasiddhi
Original Sutra AuthorDevnandi Maharaj
AuthorFulchandra Jain Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages568
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy