Book Title: Sarva Siddhanta Stava
Author(s): Jinprabhasuri, Somodaygani
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
सर्वसिद्धान्तस्तवः
विशदामुपासकदशा भावदृशं मम दिशन्तु सदा ॥१६॥ (आर्या)
(अव०) आनं० आनन्दादयः श्रमणोपासकास्तेषां दशकं तस्य इतिवृत्तानि= चरितानि, तैः सुभगार्था उपासकदशानाममङ्गं विशदां भावदृशं ज्ञानं मम सदा दिशन्तु ॥१६॥ [मू०] महऋषिमहासतीनां
गौतमपद्मावतीपुरोगाणाम् । अधिकृतशिवान्तसुकृताः स्मरतौच्चैरन्तकृद्दशाः कृतिनः ॥१७॥ (आर्या)
(अव०) मह० गौतमपद्मावतीप्रमुखाणां महऋषिमहासतीनां अधिकृतानि= प्रकटितानि शिवान्तानि सुकृतानि यासु ता अन्तकृद्दशाः, हे ! कृतिन' ! उच्चैयूयं स्मरत ॥१७॥ [मू०] गुणैर्यदध्ययनकलापकीर्तिता
अनुत्तराः प्रशमिषु जालिमुख्यकाः । अनुत्तरश्रियमभजन्ननुत्तरोपपातिकोपपददशाः श्रयामि ताः ॥१८॥ (रुचिरा)
(अव० ) गुणै० यदध्ययनकलापे कीर्तिताः=कथिताः प्रशमिषु =ऋषिषु गुणैश्चारित्रादिभिरनुत्तरा:=प्रधाना जालिमुख्यकाः, जालि= नमिऋषिः स एव मुख्यो येषां ते जालिमुख्या: । जालिमुख्या एव जालिमुख्यकाः, स्वार्थे कप्रत्ययः, अनुत्तराणि२= विजयादीनि पञ्च विमानानि तेषां श्रियम् अभजन् । अनुत्तरोपपातिकमिति उपपदं पूर्वपदं यासां ता अनुत्तरोपपातिकदशाः अहं श्रयामि ॥१८॥

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69