Book Title: Sarva Siddhanta Stava
Author(s): Jinprabhasuri, Somodaygani
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 46
________________ सर्वसिद्धान्तस्तवः पूर्वभवे गृहीतदीक्षौ, बहुपुत्रिकाऽनपत्या' पूर्वभवे प्रव्रजिता तदादिभिर्भुज्यमानं गणाधिपोऽगृणात्= जगाद । ताः पुष्पिताः शं-सुखं अभिपुष्पयन्तु-उत्फुल्लयन्तु । यत्र ग्रन्थेऽङ्गिनो गृहवासत्यागेन संयमभावपुष्पिता वर्णिताः ॥२९॥ [मू०] श्रीहीप्रभृतिदेवीनां चरित्रं यत्र सूत्रितम् । ताः सन्तु मे प्रसादानुकूलिकाः पुष्पचूलिकाः ॥३०॥ (अनुष्टुप् ) (अव०) श्रीहीप्रभृतिदेवीनां चरित्रं परिवारादिस्वरूपं यत्र सूत्रितं कथितम् । ताः पुष्पचूलिका मे=मम प्रसादानुकूलिका:१= प्रसादतत्पराः सन्तु ॥३०॥ [मू०] वृष्णीनां निषधादीनां द्वादशानां यशःस्रजः । पुष्णन्तु भक्तिनिष्णानां दशां वृष्णिदशाः शुभाम् ॥३१॥ (अनुष्टुप् ) (अव०) वृष्णी० निषधादीनां राज्ञां वृष्णीनां अन्धकवृष्णिगोत्रजानां द्वादशानां यशःस्रजो-यशोमाला इव वृष्णिदशा भक्तिपराणां शुभां दशां पुष्णन्तु ॥३१॥ [मू०] वन्दे मरणसमाधिं प्रत्याख्याने महातुरोपपदे । संस्तारचन्द्रवेध्यकभक्तपरिज्ञाचतुःशरणम् ॥३२॥(आर्या) (अव०) नन्द्यनुयोगद्वारयोः पूर्वं कथनादायद्वयेन त्रयोदशप्रकीर्णकानि स्तौति । वन्दे० अहं वन्दे मरणसमाधि महा इति आतुर इति उपपदे ययोस्ते महाप्रत्याख्यान-आतुरप्रत्याख्याने संस्तार-चन्द्रवेध्यकभक्तपरिज्ञा-चतुःशरणं समाहारः ॥३२॥

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69