Book Title: Sarva Siddhanta Stava
Author(s): Jinprabhasuri, Somodaygani
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 55
________________ २२ स्थानाङ्गाय दशस्थानस्थापिताखिलवस्तु । नमामि कामितफलप्रदानसुरशाखिने ॥१२॥ तत्तत्सङ्ख्याविशिष्टार्थप्ररूपणपरायणम् । संस्तुमः समवायाङ्गं समवायैः स्तुतं सताम् ॥१३॥ या षट्त्रिंशत्सहस्त्रान् प्रतिविधिसजुषां बिभ्रती प्रश्नवाचं, चत्वारिंशच्छतेषु प्रथयति परितः श्रेणिमुद्देशकानाम् । रङ्गद्भङ्गोत्तरङ्गा नयगमगहना दुर्विगाहा विवाहप्रज्ञप्तिः पञ्चमाङ्गं जयति भगवती सा विचित्रार्थकोशः ॥१४॥ कथानकानां यत्रार्द्धचतस्रः कोटयः स्थिताः । सोत्क्षिप्तादिज्ञाता ज्ञातधर्मकथा श्रिये ॥१५॥ आनन्दादिश्रमणोपासकदशकेतिवृत्तसुभगार्थाः । विशदामुपासकदशा भावदृशं मम दिशन्तु सदा ॥ १६ ॥ सर्वसिद्धान्तस्तवः महऋषिमहासतीनां गौतमपद्मावतीपुरोगाणाम् । अधिकृतशिवान्तसुकृताः स्मरतौच्चैरन्तकृद्दशाः कृतिनः ॥१७॥ गुणैर्यदध्ययनकलापकीर्तिता अनुत्तराः प्रशमिषु जालिमुख्यकाः । अनुत्तरश्रियमभजन्ननुत्तरोपपातिकोपपददशाः श्रयामि ताः ॥ १८ ॥ अङ्गुष्ठाद्यवतरदिष्टदेवतानां, विद्यानां भवनमुदात्तवैभवानाम् । निर्णीतास्त्रवविधिसंवरस्वरूपाः, प्रश्नव्याकरणदशा दिशन्तु शं नः ॥१९॥ ज्ञातैर्मृगापुत्रसुबाहुवादिभिः शासद्विपाकं सुखदुःखकर्मणाम् । द्विःपङ्क्तिसङ्ख्याध्ययनोपशोभितं श्रीमद्विपाकश्रुतमस्तु नः श्रिये ॥२०॥ प्रणिधाय यत्प्रवृत्ता शास्त्रान्तरवर्णनातिदेशततिः । नमतौपपातिकं तत्प्रकटयदुपपातवैचित्रीम् ॥२१॥ सूर्याभवैभवं विभावनदृष्टतीर्थप्रश्नादनन्तरमिनानननिर्गतेन । केशिप्रदेशिचरितेन विराजि राज - प्रश्नीयमिद्धमुपपत्तिशतैर्महामि ॥२२॥ जीवाजीवनिरूपि द्वेधा प्रतिपत्तिनवककमनीयम् । जीवाभिगमाध्ययनं ध्यायेमासुगमगमगहनम् ॥२३॥

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69