Book Title: Sarva Siddhanta Stava
Author(s): Jinprabhasuri, Somodaygani
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
परिशिष्ट-१ मूलम्
षट्त्रिंशता पदैर्जीवाजीवभवविभावनीम् । प्रज्ञापनां पनायामि श्यामार्यस्याऽमलं यशः ॥२४॥ विवृताद्यद्वीपस्थितिजिनजनिमहचक्रिदिग्विजयविधये । भगवति जम्बूदीपप्रज्ञप्ते ! तुभ्यमस्तु नमः ॥२५॥ प्रणमामि चन्द्रसूर्यप्रज्ञप्ती यमलजातिके नव्ये । गुम्फवपुषैव नवरं नातिभिदाऽर्थात्मनापि ययोः ॥२६॥ कालादिकुमाराणां महाहवारम्भसम्भृतैर्दुरितैः । दर्शितनरकातिथ्या निरयावलिका विजेषीरन् ॥२७॥ पद्मादयः कल्पवतंसभूयमुपेयिवासः सुकृतैः शमीशाः । यत्रोदिताः श्रेणिकराजवंश्या उपास्महे कल्पवतंसिकास्ताः ॥२८॥ चन्द्रसूर्यबहुपुत्रिकादिभिर्यत्र संयमविराधनाफलम् । भुज्यमानमगृणाद् गणाधिपः पुष्पिताः शमभिपुष्पयन्तु ताः ॥२९॥ श्रीहीप्रभृतिदेवीनां चरित्रं यत्र सूत्रितम् । ताः सन्तु मे प्रसादानुकूलिकाः पुष्पचूलिकाः ॥३०॥ वृष्णीनां निषधादीनां द्वादशानां यशःस्रजः । पुष्णन्तु भक्तिनिष्णानां दशां वृष्णिदशाः शुभाम् ॥३१॥ वन्दे मरणसमाधिं प्रत्याख्याने महातुरोपपदे । संस्तारचन्द्रवेध्यकभक्तपरिज्ञाचतुःशरणम् ॥३२॥ वीरस्तवदेवेन्द्रस्तवगच्छाचारमपि च गणिविद्या । द्वीपाब्धिप्रज्ञप्तिं तन्दुलवैचारिकं च नुमः ॥३३॥ शिवाध्वदीपायोद्धातानुद्वातारोपणात्मने । चित्रोत्सर्गापवादाय निशीथाय नमो नमः ॥३४॥ नियुक्तिभाष्यप्रमुखैर्निबन्धैः सहस्रशाखीकृतवाच्यजातम् । दशाश्रुतस्कन्धमनात्तगन्धं परैः सकल्पव्यवहारमीडे ॥३५॥

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69