Book Title: Sarva Siddhanta Stava
Author(s): Jinprabhasuri, Somodaygani
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 54
________________ परिशिष्ट-१ मूलम् सिद्धान्तस्तवः नत्वा गुरुभ्यः श्रुतदेवतायै सुधर्मणे च श्रुतभक्तिनुन्नः । निरुद्धनानावृजिनागमानां जिनागमानां स्तवनं तनोमि ॥१॥ सामायिकादिक-षडध्ययन-स्वरूपमावश्यकं शिवरमावदनात्मदर्शम् । नियुक्ति-भाष्य-वर-चूर्णि-विचित्रवृत्ति-स्पष्टीकृतार्थनिवहं हृदये वहामि ॥२॥ युक्तिमुक्तास्वातिनीरं प्रमेयोनिमहोदधिम् । विशेषावश्यकं स्तौमि महाभाष्यापराह्वयम् ॥३॥ दशवैकालिकं मेरुमिव रोचिष्णुचूलिकम् । प्रीतिक्षेत्रं सुमनसां सत्कल्याणमयं स्तुमः ॥४॥ उद्यामुपोद्घातविकल्पकालभेदप्रभेदप्रतिभेदरूपाम् । मिताभिधानाममिताभिधेयां स्तौम्योघनियुक्तिममोघयुक्तिम् ॥५॥ पिण्डविधिप्रतिपत्तावखण्डपाण्डित्यदानदुर्ललिताम् । ललितपदश्रुतिमृष्टामभिष्टुमः पिण्डनियुक्तिम् ॥६॥ प्रवचननाटकनान्दीप्रपञ्चितज्ञानपञ्चकसतत्त्वा । अस्माकममन्दतमं कन्दलयतु नन्दिरानन्दम् ॥७॥ अनुयोगद्वाराणि द्वाराणीवापुनर्भवपुरस्य । जीयासुः श्रुतसौधाधिरोहसोपानरूपाणि ॥८॥ अनवमनवमरससुधाहदिनी षट्त्रिंशदुत्तराध्ययनीम् । अञ्चामि पञ्चचत्वारिंशतमृषिभाषितानि तथा ॥९॥ उच्चस्तरोदञ्चितपञ्चचूडमाचारमाचारविचारचारु । महापरिज्ञास्थनभोगविद्यमाद्यं प्रपद्येऽङ्गमनङ्गजैत्रम् ॥१०॥ त्रिषष्ठिसंयुक्तशतत्रयीमितप्रवादिदर्पाद्रिविभेदहादिनीं । द्वयश्रुतस्कन्धमयं शिवश्रिये कृतस्पहः सूत्रकृतं गमाद्रिये ॥११॥

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69