Book Title: Sarva Siddhanta Stava
Author(s): Jinprabhasuri, Somodaygani
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 52
________________ सर्वसिद्धान्तस्तवः वितरतितरां तस्मै तोषाद्वरं श्रुतदेवता, स्पृहयति च सा मुक्तिश्रीस्तत्समागमनोत्सवम् ॥४६॥ ___ (हरिणी ।) (अव०) इति० इति अमुना प्रकारेण भगवतः सिद्धान्तस्य जिनप्रभवस्य= जिनप्रणीतस्य, यः पुरुषो गुण० गुणा=देवेन्द्रोपपाताध्ययनपठनेन देवेन्द्र एति, उत्थानश्रुतेन सङ्घादिकार्ये ग्राम उद्वास्यते, समुत्थानश्रुतेन' पुनर्वास्यते, ईदृशमाहात्म्यादयस्तेषां गणः=समूहस्तस्य कथा जल्पनम् । एतत्स्तवरूपां कण्ठे कुर्यात् पठति । कथम्भूतां? प्रसिद्ध० प्रसिद्धाः सर्वविद्भिर्शाताः फलानां यथा कुत्रचिन्नगरे बहुपद्मपरिवृतं महापुण्डरीकं देवताधिष्ठितं सरस्यास्ते । तच्च केनापि ग्रहीतुं न शक्यते । राज्ञोक्तं- 'एतदानयति तद्धर्ममहं प्रतिपद्ये' इति । तदा परतीथिकैरुपक्रमेणाप्यादानाशक्तैर्मन्त्रिणा जैनर्षिराकारितः तेन च सचितजलास्पशिना त्रिः प्रदक्षिणीकृत्य पालिस्थैनैव 'उप्पाहि पुण्डरीआ' इत्यादि पुण्डरीकाध्ययनं पेठे । ततस्तत्पुण्डरीकमुत्प्लुत्य राज्ञोऽङ्के पपात । तदनु सपरिकरो राजा जैनोऽजनि । इत्यादीनां प्रथा विस्तारो यस्यास्तां प्रसिद्धफलप्रथाम् । तस्मै तोषात् श्रुतदेवता वरं वितरति-दत्ते । सा मुक्तिश्रीस्तत्समागमनोत्सवं स्पृहयति । अत्र पूर्वार्द्ध जिनप्रभवस्येति सिद्धान्तविशेषणेन कविरौद्धत्यपरिहाराय गुप्त जिनप्रभेति स्वनामाभिहितवान् इति ॥४६॥ आदिगुप्ताभिधानस्य गुरोः पादप्रसादतः । पदविच्छेदरूपेयं विवृतिलिखिता मिता ॥

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69