Book Title: Sarva Siddhanta Stava
Author(s): Jinprabhasuri, Somodaygani
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
सर्वसिद्धान्तस्तवः
समयसुधाम्बुधिपृषतान् परिचिनुमः प्रकरणानि चिरम् ॥४३॥ (आर्या )
(अव०) कर्म० कर्मस्वरूपप्रतिपादको ग्रन्थः कर्मप्रकृतिः । तत्प्रमुखानि अपराण्यपि अनुक्तानि पूर्वसूरिरचितानि प्रकरणानि चिरं परिचिनुमः सुपरिचितानि कुर्मः सम० सिद्धान्तोदधिबिन्दुप्रायाणि ॥४३॥ [मू०] व्याकरणछन्दोऽलङ्कृति
नाटक-काव्य-तर्क-गणितादि । सम्यग्दृष्टिपरिग्रहपूतं जयति श्रुतज्ञानम् ॥४४॥ (आर्या)
(अव०) = व्याक० व्याकरण-छन्दोऽलङ्कृति-नाटककाव्य-तर्क-गणितादि मिथ्यादृग्भिः कृतमपि सम्यग्दृष्टयो-जैनास्तैः २ परिग्रहः स्वीकृतिस्तया पूतं श्रुतज्ञानं३ जयति ॥४४॥ [मू०] सर्वश्रुताभ्यन्तरगां कृतैन
स्तिरस्कृति पञ्चनमस्कृतिं च । तीर्थप्रवृत्तेः प्रथमं निमित्तमाचार्यमन्त्रं च नमस्करोमि ॥४५॥ (उपजातिः)
(अव०) = सर्व० कृतपापतिरस्कारां सर्व० सर्वसिद्धान्तमध्यगां' पञ्चनमस्कृति= पञ्चनमस्कारम् । तीर्थ० शासनप्रवृत्तेः प्रथमं निमित्तं आचार्यमन्त्रं च नमस्करोमि२ ॥४५॥ [मू०] इति भगवतः सिद्धान्तस्य प्रसिद्धफलप्रथां,
गुणगणकथां कण्ठे कुर्याज्जिनप्रभवस्य यः ।

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69