Book Title: Sarva Siddhanta Stava
Author(s): Jinprabhasuri, Somodaygani
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 49
________________ सर्वसिद्धान्तस्तवः (अव०) अञ्चा० पञ्चघ्ननवभिः पञ्चत्वारिंशत्प्रमाणैराचाम्लैः नियूँढयोगं साध्यं कुमतैरबाध्यम् । महि० महिमा एव औषधयस्तासाम् । निशी० चन्द्रं, वृद्धिप्रापकत्वात् । शिव० मोक्षमार्गभूतं महानिशीथं अञ्चामि पूजयामि ॥३८॥ [मू०] नियुक्तिभाष्यवार्तिक सङ्ग्रहणीचूर्णिटिप्पनकटीकाः । सर्वेषामप्येषां चेतसि निवसन्तुरे नः सततम् ॥३९॥ (आर्या) (अव०) निर्यु० नियुक्तिः सूत्रोक्तार्थभेदप्ररूपिका, भाष्यं = सूत्रोक्तार्थप्रपञ्चकं, वार्तिकं उक्तानुक्तदुरूक्तार्थानां चिन्ताकारि, सङ्ग्रहणी सूत्रोक्तार्थसङ्ग्राहिका, चूर्णिः अवचूर्णिः, टिप्पनकं= विषमपदव्याख्या, टीका-निरन्तरव्याख्या एताः । एषां सर्वेषामपि पूर्वोक्तग्रन्थानाम्, नश्चेतसि सततं निवसन्तु ॥३९॥ [मू०] परिकर्म-सूत्र-पूर्वानुयोग पूर्वगत-चूलिकाभेदम् । ध्यायामि दृष्टिवादं कालिकमुत्कालिकं श्रुतं चान्यत् ॥४०॥ (आर्या) (अव०) परि० परिकर्मः सप्रभेदः । सूत्राणि द्वाविंशतिभेदानि । पूर्वानुयोगो द्विधा प्रथमानुयोगः कालानुयोगश्च । प्रथमे २४ (चतुर्विशति) जिन १२ (द्वादश) चक्रिदशाचरित्राणि, कालानुयोगेऽष्टाङ्गनिमित्तम् । पूर्वाणि सर्वाङ्गेभ्योऽर्थतो जिनैः शब्दतो गणधरैश्च पूर्वं रचितत्वात् पूर्वाणि' चतुर्दशापि पूर्वगतम् । चूलिका उक्तशेषवाच्याः । एते पञ्चभेदा यस्य तं दृष्टयो=दर्शनानि तासां वदनं दृष्टिवादस्तं ध्यायामिरे । च=पुनरन्यत्

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69