Book Title: Sarva Siddhanta Stava
Author(s): Jinprabhasuri, Somodaygani
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
सर्वसिद्धान्तस्तवः
[ मू०] षट्सप्तपङ्क्तिविंशति
षट्गुणसप्तप्रकारकल्पानाम् । कल्पित
विस्तारयिता
फलदः स्तात् पञ्चकल्पो नः ॥३६॥ ( आर्या )
(अव० ) षट्० षट् सप्त पङ्क्तिर्दश विंशतिः षड्गुणद्विसप्त= द्विचत्वारिंशत्प्रकारा ये कल्पास्तेषाम् । विस्तारयिता पञ्चकल्पो नोऽस्माकं कल्पितफलदो=वाञ्छितफलदः १ स्तात् ||३६||
I
[मू० ] लेभे यद्व्यवहारेणाधुनान्त्येनापि मुख्यताम् ।
तं जीतकल्पमाकल्पकल्पं तीर्थश्रियः श्रये ३ ॥३७॥ ( आर्या )
१५
(अव०) लेभे० अन्त्येनापि यद्व्यवहारेण यदाचारेण अधुना मुख्यतां लेभे । एतदाधारेणैव प्रायश्चित्तविधिप्रवृत्तेः । तं जीतकल्पं तीर्थश्रियः=शासनरमाया आकल्पकल्पं = वेषतुल्यं श्रये । व्यवहाराः पञ्च आगमः, श्रुतम्, आज्ञा, धारणा, जीतं चेति सन्ति । यदुक्तं व्यवहारे'आगममाईओ जओ ववहारो पंचहा विणिद्दिट्ठो । आगमसुअआणधारणा य जीए अ पंचम । एवं जीतव्यवहारोऽन्त्यः२ ॥३७॥
[मू०] अञ्चामि पञ्चघ्ननवप्रमाणाचामाम्लसाध्यं कुमतैरबाध्यम् । महानिशीथं महिमौषधीनां
निशीथिनीशं शिववीथिभूतम् ॥३८॥ ( उपजाति: )
धारणा जीए । (३.१०.२१.५) इयं गाथा पञ्चाशके दृश्यते ।
-
१. व्यवहारसूत्रे - पंचविहे ववहारे पण्णत्ते तं जहा-आगमे सुए आणा

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69