SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सर्वसिद्धान्तस्तवः [ मू०] षट्सप्तपङ्क्तिविंशति षट्गुणसप्तप्रकारकल्पानाम् । कल्पित विस्तारयिता फलदः स्तात् पञ्चकल्पो नः ॥३६॥ ( आर्या ) (अव० ) षट्० षट् सप्त पङ्क्तिर्दश विंशतिः षड्गुणद्विसप्त= द्विचत्वारिंशत्प्रकारा ये कल्पास्तेषाम् । विस्तारयिता पञ्चकल्पो नोऽस्माकं कल्पितफलदो=वाञ्छितफलदः १ स्तात् ||३६|| I [मू० ] लेभे यद्व्यवहारेणाधुनान्त्येनापि मुख्यताम् । तं जीतकल्पमाकल्पकल्पं तीर्थश्रियः श्रये ३ ॥३७॥ ( आर्या ) १५ (अव०) लेभे० अन्त्येनापि यद्व्यवहारेण यदाचारेण अधुना मुख्यतां लेभे । एतदाधारेणैव प्रायश्चित्तविधिप्रवृत्तेः । तं जीतकल्पं तीर्थश्रियः=शासनरमाया आकल्पकल्पं = वेषतुल्यं श्रये । व्यवहाराः पञ्च आगमः, श्रुतम्, आज्ञा, धारणा, जीतं चेति सन्ति । यदुक्तं व्यवहारे'आगममाईओ जओ ववहारो पंचहा विणिद्दिट्ठो । आगमसुअआणधारणा य जीए अ पंचम । एवं जीतव्यवहारोऽन्त्यः२ ॥३७॥ [मू०] अञ्चामि पञ्चघ्ननवप्रमाणाचामाम्लसाध्यं कुमतैरबाध्यम् । महानिशीथं महिमौषधीनां निशीथिनीशं शिववीथिभूतम् ॥३८॥ ( उपजाति: ) धारणा जीए । (३.१०.२१.५) इयं गाथा पञ्चाशके दृश्यते । - १. व्यवहारसूत्रे - पंचविहे ववहारे पण्णत्ते तं जहा-आगमे सुए आणा
SR No.009264
Book TitleSarva Siddhanta Stava
Original Sutra AuthorN/A
AuthorJinprabhasuri, Somodaygani
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages69
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy